पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः ४५१ परापमानां नरमौविकाया हता नरस्योत्क्रमजीवया सा । ततो विभक्ता परमापमाख्य मौर्व्यान्तिमज्या युतया यदाप्तम् । कोटिज्यया मिश्रितमर्धितं तत् त्रिशद्गुणं कोटिगुणेन भक्तम् । लब्धञ्च तद्व्यासदलं ततश्च पूर्वे दले कोटिगुणोनिते तु ॥ शेषं खरामैर्गुणितं विभक्तं कोटिज्यया प्राप्तमतो लवादि । केन्द्रं भचक्रस्य भवत्यवश्यं तदन्ततो व्यासदलभ्रम: स्यात् || इति गौरवेण प्रकारान्तरमुपकल्पितं महेन्द्रसूरिणा तदयुक्तम् । आद्याद्यत्र विचित्रभङ्गिभिरभिप्रेतप्रसिद्धौ क्रिया लघ्वी वाथ समा तदेव सुधिया कार्यं प्रकारान्तरम् । इत्याचार्योक्तेः । ककँमेषमकर रात्रवृत्तं साधितमेवं वृषवृत्ताद्यं साधनीयं तेषां नातीव प्रयोजनमिति तानि न साध्यन्ते । द्युज्यासाधनोपपत्तिः—त्रिज्यया चेन्मेषप्रमाणाङ्गुलानि लभ्यन्ते तदेष्टक्रम- दोर्ज्ययाकिमिति क्रमदोर्ज्या यन्त्रे भवति । त्रिज्यायाः चेन्मेषप्रमाणाङ्गुलानि तदेष्टोत्क्रमदोर्ज्यया किमिति भुजोत्क्रमज्या यन्त्रे भवति । ध्रुवग्रहान्तरे द्यज्या चापां- शका एव गोले भवन्ति । अत्र ग्रह इत्युपलक्षणं तारागणस्य । अत्र ध्रुवादतिसन्निहित - तया भ्रममाणानि समन्ततो ज्योतिर्मयादि भवन्तीति प्रत्यंशयुज्याखण्डानि साधितानि । अगस्त्यादीनि याम्यध्रुवसन्निहितत्वेन ध्रुवापरितो भ्रमन्तीति राशिषट्क- युज्याः साधिता याम्योत्तरध्रुवयोः षड्राश्यन्तरितत्वात् । यन्त्रकेन्द्रं ध्रुवस्थानं तस्माद् याम्योत्तररेखायामिष्टयुज्या देया सा कोटि: । मेषादिवृत्तपूर्वरेखासम्पातान्तरे मेषप्रमाणं भुजः । इष्टद्युज्याग्रमेषादिवृत्तपूर्वरेखासम्पातावधि तिर्यक् कर्ण इति बहूनि क्षेत्राणि युज्या बाहुल्यान्मेषप्रमाणतुल्य एवैकस्मिन् भुजे भवन्ति । भुजे द्वाद- शके यौ यौ कोटिकर्णावनेकधेति न्यायात् मेषप्रमाणतुल्ये भुजे युज्यारूपाः कोटयो बह्वय एवमनुपातेन सिद्धयन्ति । यदि क्रमदोर्ज्ययोत्क्रमज्याकोटिस्तदा मेषप्रमाणभुजे का कोटिरिति युज्या भवति । परमत्र क्रमदोर्ज्योत्क्रमज्ये यन्त्रपरिणते ग्राह्ये । अगस्त्यादीनां सौम्यध्रुवा- दुपरि नतांश नवतियोगेन समन्तात् स्थितानां धुज्यानयने खग्रहलवाधिक्ये तु कोटि: क्रमज्या त्रिज्यायुक्तैवोत्क्रमज्या भवति । बाणेन्दुनाड्यूननतक्रमज्या त्रिज्यान्विता सैव नतोत्क्रमज्या । इति न्यायेन | मेषप्रमाणगुणनं क्रमदोर्ज्याभागहरणं तुल्यमेव । अथ क्षितिजवृत्तस्य केन्द्रव्याससाधनोपपत्तिः - मेरौ तु नाडीमण्डलं क्षितिजं विषुववृत्तं द्युसदामित्युक्तेः । मेरुस्त्वत्र मध्यकेन्द्रमेव भवतीति यन्त्रकेन्द्रक्षितिजकेन्द्र- योरन्तराभावः। यन्त्रे मेषप्रमाणवृत्तस्य नाडीमण्डलत्वेन मेरौ क्षितिजव्यासो मेष- प्रमाणतुल्यः । तस्मान्मेरी क्षितिजकेन्द्रव्यासयोरन्तरं परमं मेषप्रमाणतुल्यम् । लङ्कायां निरक्षक्षितिजस्य यन्त्रकेन्द्रोपरिगपूर्वापरसूत्ररूपत्वेन केन्द्रव्यासयोस्तुल्यत्वाङ्गीकारा-