पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० सिद्धान्तशिरोमणी गोलाध्याये क्रान्तिज्या गृह्यते । भुजज्यात्रिज्यायोगो भुजज्यात्रिज्यान्तरेण कोट्युत्क्रमज्यातुल्येन गुणित: कोटिक्रमज्यावर्ग एव भवति । कोटिज्यावर्गो नाम दोर्ज्यात्रिज्ययोर्वर्गान्तरं तद्भुजज्यात्रिज्यायोगान्तरघाततुल्यमिति प्रसिद्धेः । पुनरेतौ गुणहरौ कोटिक्रमज्या- परपर्यायद्युज्ययापर्वात्ततौ गुणस्थाने कोटिभवोत्क्रमज्या जाता । हरस्थानेऽपक्रम - कोटिज्यैव जाता वर्गस्य समद्विघातरूपत्वात् । कोटिभवोत्क्रमज्या 'त्रिंशद्गुणापक्रम - कोटिमौर्वीहृतेति सम्यगुक्तम् । कर्कवृत्तमानस्योपपत्तिः– यन्त्र केन्द्रात्कर्कादिः परमार्कंक्रान्त्युत्थकोटयुत्क्रमज्या- तुल्यान्तरेणैव समन्ततो भ्रमतीति तावदेव कर्कवृत्तप्रमाणं भवति । क्रान्तिवृत्तकेन्द्रस्य क्रान्तिवृत्तस्थकर्कादिस्थानस्यान्तरं त्रिज्यातुल्यम् । अत्र क्रान्तिवृत्तकेन्द्रयन्त्रकेन्द्र- योरन्तर क्रान्तिज्यातुल्यं शोध्यम् । शोधिते भुजज्योना त्रिज्या कोट्युत्क्रमज्येति प्रसिद्धंर्जातं कोटिभवोत्क्रमज्यातुल्यं कर्कप्रमाणम् । खगुणपरिणामायानुपातः । यदि परार्कक्रन्तिज्यायुक्ता त्रिज्यायास्त्रिशन्मानं तदा कोटिभवोत्क्रमज्यायाः कियदिति कर्कमानं भवति १२५१ अत्रापि महेन्द्र- सूरिणा गौरवं कृतम् । भाज्यहरौ भाज्येनैव गुणितौ जातो भाज्यस्थाने कोट्यु- त्क्रमज्यावर्गो नवशतगुणः । हरस्थाने पूर्वोक्तन्यायेन जातः कोटिक्रमज्यावर्गंस्त्रिशद्- गुणः। अयन्तु पूर्वोक्तमेषप्रमाणवर्गत्रिंशदंशतुल्य एव युक्त्या सिद्ध इति तुलाज- मानस्य कृतिः खरामैर्हता स्मंशादिकुलीरमानमित्युक्तम् । क्रान्तिवृत्तव्यासाद्धं त्रिज्या सैव क्रान्तिवृत्तव्यास इत्युच्यते । खगुणपरिणामोऽनुपातेन । यदि परार्कक्रान्तिज्यायुक्तत्रिज्यया त्रिशल्लभ्यते तदा त्रिज्यया किमिति क्रान्तिवृत्तव्यासप्रमाणं यन्त्रे भवति । महेन्द्रसूरिणाऽत्र प्रकारान्तरं कृतम् । परक्रान्तिज्योना त्रिज्याकोट्युत्क्रमज्या- खण्डद्वयात्मिका । पक्रांज्या १ त्रिज्या १ इयं नरोत्क्रमज्या नरमौर्विकया गुणिता जातं खण्डद्वयम् । पक्रायुज्या १ परक्रान्तिज्योत्पन्नघुज्या त्रिज्याघातः १ इदं क्रान्ति- ज्यायुक्तत्रिज्याहृतं जातं खण्डद्वयं सच्छेदम् । इदं समच्छेदेन द्युज्यायुतं जातं खण्डमेकं द्युज्यात्रिज्याघातो द्विगुण: । हरस्तु परक्रान्तिज्यायुक्तत्रिज्यायोगतुल्यः । इदमधितं जातं द्यूज्यात्रिज्याघाततुल्यमुपरि । हरस्तु यथास्थित एव । इदं त्रिंशद्गुणं द्युज्या- भक्तं जातं त्रिंशद्गुणत्रिज्यापरक्रान्तिज्यायुक्तत्रिज्यया भाज्येति । यन्त्र केन्द्रात् क्रान्तिवृत्तकेन्द्रं परक्रान्तिज्या भवति । तस्य खगुणपरिणामार्थमनुपात: । यदि पराकंक्रान्तिज्यायुक्तत्रिज्यया खगुणाः लभ्यन्ते तदा परार्कक्रान्तिज्यया किमिति क्रान्तिवृत्तकेन्द्रं सिद्धयति । क्रान्तिवृत्त- व्यासानयने यदर्धितं तदिदं पूर्वदलमित्युच्यते । पूर्वदलं ज्यात्रिज्याघातः परार्क- क्रान्तिज्यायुक्तत्रिज्याभक्त इति सिद्धम् । इदं समच्छेदेन कोटिगुणापरपर्यायद्यज्यातः शोध्यम् । तत्र खण्डत्रये धनर्णयोस्तुल्ययोर्नाशे जातमेकमेव खण्डं युज्याक्रान्तिज्याघातः परार्कक्रान्तिज्यायुक्त- • भाज्यया भाज्य इति सिद्धम् । इदं खगुणगुणं युज्याभक्तं कृतम् । एवं कृते खगुणपरिणतार्कपरमक्रान्तिज्यैव केन्द्रमिति जातमेव । त्रिज्य