पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये सुषिरस्थस्थिरकीले भाराढ्यं कृशसूत्रं निक्षिप्य तत्सूत्रं यदि दक्षिणोदग्गतरेखां सर्वां स्पृशति तदा यन्त्रं शुद्धं ज्ञेयम् । नो चेद्यस्मिन् भागे सूत्रं याति तदन्यं धृष्ट्वा सूत्रे रेखासंपातः कार्यः । कोष्टकागारकेन्द्रे मेरुकीलनिवेशनाय छिद्रं कार्यम् । कोष्टकागारपाल्यन्तर्वतिखात- व्यासतुल्यखातव्यासानामक्षपत्राणां तद्व्यासतुल्यव्यासभपत्रस्य च केन्द्र मेरुकील- निवेशनाय च छिद्राणि कार्याणि । तथाह - मृदा धातुना दारुणा वा भ्रमोत्थातिवृत्ताभमुद्यत् किरीटं च किञ्चित् । विहाय स्थलं पालये वृत्तपूर्वं सुखान्तं समं लक्ष्णमिष्टप्रमाणम् ॥१॥ सरन्ध्रञ्च मध्ये किरीटेऽपि रन्ध्रद्वयस्पृक्किरींटाग्रतोऽन्तस्पृगेका । भवेद्दक्षिणोदग्गता यत्र रेखा परप्राच्यमा कपाले यदुत्थे ॥२॥ सृजेत् कोष्टकागारमित्यस्य तिर्यग्विधेयान्तरेखान्तगा प्राक् प्रतीच्योः । इदं पृष्ठभागेऽपि रेखाद्वयं स्यात्, ततो जातभागेषु साम्यं चतुर्षु ॥ ३ ॥ निक्षेप्यैका किरीटस्थितसुषिरगते वृश्चिकाराभकीले, मुद्रा साधारसूत्रादृढ़ मिह सुषिरे न्यस्य कीलं तदग्रात् । बद्ध्वाधो भारसूत्रं स्पृशति न यदि तत् सर्वरेखां धृतेऽस्मिन्, यन्त्रे स्थौल्यं विधृष्याखिलतलसमता सूत्रयोगेन कार्या ॥४॥ तत्खातमानसमसान्तररन्ध्ररेखा युग्माक्षपत्रनिचयोऽन्तरतोऽस्य धार्यः । प्रागन्यरेखां समम् । साकं ततो द्विगुणस्थौल्यभपत्रकेण पालि स्पृशेत् समतया निहितं यथादः ||५|| यां कोष्टाक्षभपत्रकाण्यपि विशेद् भित्वान्तरा कीलक- स्तीक्ष्णाग्रद्वितयांशवृत्ततुलिता मध्येन स्पृशती भुजा च नयने सम्मुख्यतुल्यान्तर- च्छिद्रे सा दधती स्वमध्यसुषिरात्पाश्र्वद्वयेऽपि स्थिते ॥६॥ समस्तं विभिद्य स्थिते मेरुकीलेऽग्रतः सन्निवेश्य कृते सूक्ष्मरन्ध्रे । दृढ़त्वाद्यथोद्याख्यकीलोऽत्र यन्त्रे यथा विस्तृतिस्पष्टभावाधिकत्वम् ॥७॥ षष्ठ्यंशकैर्व्यासमिति कलाद्यै विभज्य पाल्यन्तररेखिकायाम् । व्यासान्तगं खत्रिलर्वैर्विदध्यान्मध्यात्सुशोभं मकराख्यवृत्तम् ॥८॥ नागाग्निलिप्ताढयनवेन्दु १९ ३८ भागैस्तुलाजवृत्तं वलयं च कार्यम् । अर्कांशकैर्भशरलिप्तिकायैः केन्द्राद्भ्रमत्कर्कटकेन कुर्यात् ॥९॥ पालौ कोष्ठगृहे त्रिवृत्तजनिते वीथी द्वयेऽभीप्सिता- नंशाङ्कान्प्रथमं खषशिखिलवानन्तश्च रेखाभिविलिखेत्तथैव सकलं पृष्ठेऽपि लेख्यं क्वचित्, केचित्प्रोचुरपक्रमांशगुणशङ्क्वाभास्थिति • तत्र केन्द्रोन्मुखान् । १. पर प्रोक्त क पु० य र प्राक्य इति ख पु० । च ॥१०॥