पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः .रविचिह्नस्य च्छाया पतति कुमध्ये यथा तथा विधृते । उडुगोले कुजबिन्द्वोर्मध्ये नाड्यो घुयाताः स्युः ॥ ४ ॥ ४३९ वा० भा० - यथोक्त विधिना खगोलान्तभंगोलं बद्ध्वा तत्र क्रान्तिवृत्ते मेषादेरारभ्य रविभुक्त राशिभागाद्य दत्त्वा तदने यच्चिह्नं तदपवृत्तगरविचिह्नमुच्यते । भगोलं च लयित्वा रवि- चिह्नं क्षितिजे धार्यम् । तथा धृते सति क्षितिजं प्राच्यां विषुवन्मण्डले यत्र लग्नं तत्र खटिकया बिन्दु: कार्य: । ततः क्षितिजवृत्तं जलसमं यथा भवति तथा गोलयात्रं स्थिरं कृत्वा भगोलस्तथा चाल्यो यथा रविचिह्रस्य छाया भूगर्भे । तथा सति विषुववृत्ते क्षितिजबिन्द्वोर्मध्ये यावत्यो घटिकास्तावत्यस्तस्मिन् काले दिनगता ज्ञेयाः । अपवृत्ते मेषादेशरभ्य प्राविक्षतिजपर्यन्तं यद्राशिभागाद्य तल्लग्नं ज्ञेयम् । इति गोलयन्त्रम् ।। ३-४ । वा० वा० -- अथ दिनगतज्ञानार्थमाह- अपवृत्तगरविचिह्नमिति | रविचिह्न- स्य छायेति। नतांशज्ञाने दिनगतलग्नादिज्ञानं सुलभमिति कुमध्ये रविचिह्नस्य छाया यथा पतति तथा भगोलो धार्य इत्युक्तम् । अस्मादुक्तखगोलभगोलरचनायान्तु नतांशा- स्तुर्यादिना ज्ञात्वा क्रान्तिवृत्तस्थरविचिह्नं दृङ्मण्डगतेष्टनतांशाग्रे नयेत् । तदापवृत्ते कुज- ( लग्ने ) लग्नज्ञानम् | अपवृत्तगरवि चिह्नक्षितिजे कृत्वा कुजेन संसक्ते नाडीवृत्ते बिन्दुं कृत्वेष्टनतांशाग्रस्थे रविचित्रेऽस्य बिन्दो: क्षितिजस्य नाडीवृत्ते यदन्तरं तद्दिनगतमिति तुल्यमेव | रात्रावप्यभीष्टनक्षत्रस्य नतांशाश्चक्रादिना ज्ञेयाः । पूर्व- कृतनक्षत्रद्युरात्रवृत्तस्य दृङ्मण्डलगतेष्टनक्षत्रनतांशाग्रस्य संपाते तदा तन्नक्षत्रमिति प्रसिद्धेभंगोलगततन्नक्षत्रचिह्नं सम्पाते नयेत्तस्मिन्नीते कुजलग्नक्रान्तिवृत्तावयवो लग्न- मित्यादिना भावचतुष्टयज्ञानं सुखेन भवति । सषड्सूर्ये क्षितिजस्थे यो नाडीमण्डला- वयवः क्षितिजस्थो यश्च नक्षत्रद्यरात्रवृत्तदृङ्‌मण्डलगतेष्टतन्नतांशाग्रसम्पातस्थे भगोल- स्थनक्षत्रचिह्ने नाडीमण्डलावयवस्तयोरन्तरं नाडीमण्डले रात्रिगतं स्यात् । अथ भगोले नक्षत्रचिह्नं कथमङ्कनीयमिति प्रोच्यते । तत्र पित्र्यर्क्षपुष्पान्तिम- वारुणानि क्रान्तिवृत्ते स्वस्वध्रुवकांश: शराभावाद क्यानि | अन्यस्येष्टनक्षत्रस्य भवलये कुत्रावस्थितिरिति ज्ञानार्थं तन्नक्षत्रस्य याम्योत्तरवृत्तस्थस्य रात्रौ नतांशादुन्न- तांशाश्च ज्ञेयाः । यदेष्टनक्षत्रं याम्योत्तरसूत्रगतं लक्षितं तस्मिन्नेव काले क्रान्तिवृत्तस्थानां पूर्वोक्तनक्षत्राणामन्यतमस्येष्टनतांशा वेध्याः | तन्नतांशाग्रे क्रान्तिवृत्तस्थनक्षत्रचिह्न न्यस्ते यः क्रान्तिमण्डलावयवो याम्योत्तरसूत्रगतः स एवेष्टनक्षत्रस्य दृक्कर्मसंस्कृतो ध्रुवो वेद्यः । तस्मिन्नेव काले इष्टनक्षत्रस्य मध्याह्नतांशाग्रे चिह्नं भवलये कार्यम् तदेव तन्नक्षत्रचिह्नं स्यात् । सर्वाण्यपि नक्षत्राणि भगोलेऽङ्क्यानि । नक्षत्रध्रुवं क्रान्तिवृत्ते दत्त्वा नक्षत्रोत्थापनवलनज्ञातकदम्बसूत्रे पठितशरं दत्त्वा तदग्रे यद्वा