पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ गोलाध्याये --दिनगतकाला- - वा० वा० -- अथ यन्त्राध्यायमारभमाणस्तदारम्भप्रयोजनमाह वयवा इति । अत्र दश यन्त्राणि प्रतिपाद्यन्ते तेषां नामान्याह - गोल इति । सर्वेषां यन्त्राणां गोलमूलकत्वात् पूर्वं गोलोद्देशः कृतः । गोलरचना प्रागुक्ता तत्र खगोलान्त- भंगोलं बद्ध्वा वक्ष्यमाणप्रकारेण कालो ज्ञातव्यः । यद्वा ताम्रादिधातुमयमर्द्धाङ्गुल- विस्तृतपालिकमभीष्टव्यासमेकं वृत्तं कार्यम् । तदधस्तादङ्घ्रिपदयुतं तथा कार्य यथा परिधिसमान्तरावस्थितपादत्रये भूमौ न्यस्ते उपरितनपालिवृत्तं जलसमक्षितिजं स्यात् । ४३८ लोकेऽपि शङ्खधारणार्थं यथा कुर्वंन्ति तथा कार्यम् । पालिवृत्तादीषन्न्यूनं धातुमयं गोलं कृत्वा तत्र याम्योत्तरवृत्तं कार्यम् । अस्मिन् याम्योत्तरवृत्ते उत्तरध्रुव- चिह्नादधो दक्षिणध्रुवचिह्नादुपरि लम्बान्तरेण नवान्तसंख्याकान् वेधान् गोलमध्यस्थ- शलाकाया उभयपार्श्वविनिर्गमनाय विषुवद्धृतावधि कुर्यात् । पूर्वकृतपालिवृत्तयाम्यो- त्तरयोर्नेमिमुत्कीर्यं गोलमध्यस्थशलाकानेमिमध्ये यथा सम्यक् तिष्ठति नेमितुल्यैव भवति तथोत्कीर्णनेम्यां तां शलाकां दद्यात् । तस्मिन् गोले मध्ये पूर्वापरवृत्तं कार्यं तदेव विषुववृत्तम् । तस्मात् क्रान्तिवृत्तरेखा पूर्वोक्तयुक्तया कार्या । तस्मिन् क्रान्तिवृत्ते भगणांशा अङ्क्याः । नाडीवृत्तादुभयतस्त्रीण्यहोरात्रवृत्तान्यङ्क्यानि । स्पष्टक्रान्तिवशेन नक्षत्राणामगस्त्यादीनाञ्च द्यरात्रवृत्तान्यङ्क्यानि । अत्र नाडीवृत्ते घटिकाश्चाङ्क- नीयाः । एवं सिद्धोऽयं गोलो जातो भगोलः । यत्र देशे यावन्तोऽक्षांशास्तावत्सङ्ख्या के उत्तरध्रुवादधःस्थे रन्ध्रे याम्यध्रुवादुपरि तन्मिते रन्ध्रे च गोलमध्यस्थशलाकां दत्त्वा पालिवृत्तोत्कीर्णनेम्यां दद्यात्तत्र देशे तादृशं भचक्रस्य खमध्या नतत्वं भवति । पालिवृ- त्तमेव खगोलक्षितिजम् । पूर्वकृतभगोलात् किञ्चिदधिकव्यासं धातुजं याम्योत्तरवृत्तं कृत्वा तद्दक्षिणोत्तर- पार्श्वयो रन्ध्रे कार्ये । भगोलोभय पार्श्वविनिर्गता शलाका तद्रन्ध्रद्वयगा पालिवृत्तोत्की- र्णंनेमिद्वयगा कार्या। ततोऽस्मिन् याम्योत्तरवृत्तममध्ये दृमण्डलार्थं धातुमयमण योज्यम् । पालिवृत्तादधस्तात् समवृत्तार्द्ध धातुजं पालिवृत्तसंलग्नं कार्यम् । अत्र ये म्लेच्छा यवनास्ते पूर्वोक्तयुक्तया दृक्कर्मदत्तभचिह्नानि गोले धातुमये कृत्वा ध्रुवद्वय- चिह्नरन्ध्रे कोलादिनिबद्धमध्यङ् मण्डलार्द्ध उत्तरध्रुवरन्ध्रादुपरि याम्यध्रुवादधस्ता- दिष्टाक्षांशवशेन शलाकादिनिर्गमनाय रन्ध्राणि विधाय तस्मात् सर्वं गणितजातमान- यन्ति । ईदृशं गोलं कुरेति वदन्ति । शङ्खादिधारणवद्यक्रियते तत्कुरसीसंज्ञं व्यव- हरन्ति । अयमेव खगोलः ॥ १-२ । अथ प्रथमं गोलयन्त्र माह- अपवृत्तगरविचिन्हं क्षितिजे धृत्वा कुजेन संसक्ते । नाडीवृत्ते बिन्दुं कृत्वा धृत्वाथ जलसमं क्षितिजम् ॥ ३ ॥