पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गोन्नतिवासना ४३७ वा० भा० – स्पष्टम् । अस्य वासना पूर्व कथितेव । तथापि किंचिदिहोच्यते । प्राग्वद्भि- तरुत्तरपा चन्द्रकक्षां रविकक्षां च विलिख्य तत्रोर्ध्वरेखां तियंप्रेखां च कृत्वा चन्द्रकक्षोवंरेखा संपाते चन्द्रबिम्बं विलिख्येदं दर्शयेत् । तिर्यग्रेखाथा उपरि चन्द्रकक्षाव्यासार्थ मितेऽन्तरेऽन्यां तिर्थ- ग्रेखां कुर्यात् । सा रेखा प्रत्यग्रविकक्षायां यत्र लग्ना तत्र स्थित एवार्क ऊर्ध्वरेख वच्छिन्नचन्द्र- बिम्बार्धपश्चिमतः शुक्लं भवति । तस्यार्धंमधस्तनं मनुष्यदृश्मम् । तत्रस्थेऽर्के व्यकॅन्दुः सपाद- चतुर्भागोनं राशित्रयं भवति २।२५॥४५॥ एतावत्येव व्यर्केन्दुभुजे बिम्बाधं पश्चिमं पूर्व वा शुक्लं भवितुमर्हति । न त्रिभे ।। १-५ । अयाध्य. योपसंहारलोकमाह- ईषदीपदिह मध्यगमादौ ग्रन्थगौरवभयेन मयोक्ता । वासना मतिमता सकलोह्या गोलबोध इदमेव फलं हि ॥ ६ । वा० भा० - हि यस्मात् कारणात् गोले ज्ञात इदमेव फलं यदश्रुतापि वासनोह्यते ॥६॥ इति श्रीभ स्करीये सिद्धान्तशिरोमणिगोलभाष्ये मिताक्षरे शृङ्गोन्नतिवासनाध्यायः । ग्रन्थसंख्या १८ | वा० वा० -- क्रान्तिवृत्तग्रहस्थानमित्यादिदृक्कर्मवासनाद्यं पूर्वं प्रतिपादितम् । शृङ्गोन्नतिवासनाद्यमपि पूर्वमुक्तम् । वासनाप्रतिपादनमुपसंहरति-- ईषदीषदिति ।।१-६। श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधादद्बुधाद्, भट्टाचार्यसुतादिवाकर इति ख्याताञ्जनि प्राप्तवान् यः कृष्णस्तनयेन तस्य रचिते सवासनावात्तिके सत्सिद्धान्तशिरोमणेरियमगाच्छृङ्गोन्नते वासना | अथ यन्त्राध्यायः अथ यन्त्राध्यायो व्याख्यायते । तत्रादौ तदारम्भप्रयोजनमाह - दिनगतकालावयवा ज्ञातुमशक्या यतो विना यन्त्र : | वदये यन्त्राणि ततः स्फुटानि संक्षेपतः कतिचित् ॥ १ ॥ गोलो नाडीवलयं यष्टिः शकुर्घटी चक्रम् | चापं तुर्यं फलकं धीरेकं पारमार्थिकं यन्त्रम् ।। २ । वा० भा० -स्पष्टम् ॥ १-२ ।