पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ सिद्धान्तशिरोमणी गोलाध्याये सूत्राणि वृत्तरूपाणि वलनानि तदन्तरे | अक्षजं वलनं मध्ये स्यात् समध्रुवसूत्रयोः ॥ ४६ । कदम्बध्रुव सूत्रान्तरायनं च त्रिभे ग्रहात् । कदम्बसमसूत्रान्तः स्फुटं सर्वदिशां च तत् ॥ ४७ । अथवा परितः खेटात् खाङ्कभागान्तरे न्यसेत् । त्रिज्यावृत्तं ततस्तत्र विषुवत्समवृत्तयोः ॥ ४८ । मध्येऽक्षवलनं विद्याद्विषुवत्क्रान्तिवृत्तयोः । अन्तरं चायनं क्रान्तिसमवृत्तान्तरे स्फुटम् ।। ४९ । तत्रापमण्डलं प्राची तस्या याम्योत्तरः शरः । वलनानयने क्षेपः क्षिप्तो यैस्ते कुबुद्धयः ॥ ५० । नक्रादिश्च कदम्बश्च स्यातां याम्योत्तरे समम् । आयनं वलनं तस्मान्नायनादौ प्रजायते ॥ ५१ । ततो भ्रमति गोले स मकरादिर्यथा यथा । तथा तथा भ्रमत्येष कदम्बो निजमण्डले || ५२ । कुम्भादावथ मीनादौ याम्योदग्वलयस्थिते । जायते वलनं तद्यत् सौम्यसूत्रकदम्बयोः ॥ ५३ । अन्तरं शिजिनीरूपं कदम्बभ्रममण्डले । अयनाद्गतकालांशक्रमक्रान्तिज्यका हि सा ॥ ५४ । उत्क्रमज्या यतो बाणः शिञ्जिनी तु क्रमज्यका । सत्रिभार्कात् क्रमक्रान्तिज्यातो वलनमायनम् ।। ५५ । यैरुक्तमुत्क्रमक्रान्त्या भ्रान्त्या तैर्नाशितं हि तत् । युक्त्यानथैव विक्षेपमक्षजं च क्रमज्यया ।। ५६ । परोक्तेरन्यथा ब्रूयाद्यः परान्न प्रदूषयेत् । तस्यैव दूषणं तद्धि न दोषोऽतोऽन्यदूषणे ।। ५७ । उत्क्रमज्यानिरासोऽयमन्यथा वाथ कथ्यते । जिनांशैर्जिनवृत्ताख्यं कदम्बात् परितो न्यसेत् ॥ ५८ ।