पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहणवासना क्रान्तियाम्योत्तरं वृत्तं कदम्बद्वयकीलयोः । प्रोतं कृत्वा चलं न्यस्तं द्वन्द्वान्ते स्याद्भ्रुवोपरि ।। ५९ । द्वन्द्वान्ताच्चाल्यतेंऽशैर्येस्तैरेव चलति ध्रुवात् । जिनवृत्ते तदंशानां तत्र ज्या क्रान्तिशिञ्जिनी ।। ६० । आयनं सैव वलनं द्यु ज्या जायते ग्रहात् । ग्रहध्रुवान्तरे यस्मायुज्याचापांशकाः सदा ।। ६१ । त्रिज्यावृत्ते यतो देयं तत्रातः परिणाम्यते । एवमक्षांशकैवृत्तं समाख्यात् परितो न्यसेत् ।। ६२ । समकीलकयोः प्रोतं तथा याम्योत्तरं चलम् । तत्तत्खेटोपरि न्यस्तं यैरंशैः खार्धतो नतम् || ६३ | समवृत्तेऽक्षवृत्ते चतैरेव स्यान्नतं ध्रु वात् । समवृत्तनतांशज्याक्षज्यापरिणताक्षजम् ॥ ६४ | ज्याग्रे वलनं प्राग्वत् त्रिज्याग्रे परिणाम्यते । उपपत्त्यानया सम्यक् समवृत्तनतांशजम् ।। ६५ । वलनं स्यात् तथा वक्ष्ये स्वाहोरात्रनतादपि । अग्रानृतलयोर्योगः समदिक्त्वेऽन्यथान्तरम् ।। ६६ । तत्त्रिज्यावर्गविश्लेषपदभक्ताक्षशिञ्जिनी नतासुदोर्ज्यया क्षुण्णा वलनं पलजं स्फुटम् ॥ ६७ । तं खाङ्काहतं भक्तं युदलेनाप्तभागकैः । क्रमज्याक्षज्यया क्षुण्णा स्थूलं वा द्यज्यया हृता ॥ ६८ । द्य ज्यावृ त्तापवृत्तैक्ये न्यसेद्वा रविमण्डलम् । बिम्बाग्रे वलनं तदन्तरं वृत्तयोस्तयोः ॥ ६९ । बिम्बान्तबिम्बमध्योत्थक्रान्ति मौर्व्यास्तदन्तरम् । अर्कदोर्भोग्यखण्डघ्नं बिम्बार्धं तत्वहृत् ॥ ७० | जिनज्याघ्नं त्रिभज्याप्तमेवं स्यादन्तरं हि तत् । बिम्बार्धहृत् त्रिभज्याघ्नमेवं त्रिज्यागतं भवेत् ।। ७१ । ।