पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहणवासना जिनज्याघ्नी घुजीवा 'सायनदिग्वलनं भवेत् । एवमेव हि संपाते विषुवत्समवृत्तयोः ।। ३३ । उन्मण्डलं भवेत् तत्र विषुवदक्षिणोत्तरा । क्षितिजं समवृत्तस्य पलज्या च तदन्तरम् ॥ ३४ ॥ क्षितिजेऽक्षज्यया तुल्यमक्षजं वलनं ततः । तयोरेकैव याम्योदडून मध्ये वलनं ततः ॥ ३५ | नतक्रमज्यया साध्यमन्तरे त्वनुपाततः । नतं खाङ्काहतं भक्तं घुदलेनाप्तभागकैः ।। ३६ । क्रमज्याक्षज्यया क्षुण्णा युज्याभक्ताक्षजं भवेत् । प्राक् सौम्यं पश्चिमे याम्यं तच्चापैक्यान्तगत् स्फुटम् || ३७ । एवमेव च संपातो यः क्रान्तिसमवृत्तयोः । परमं तत्र तत्कालवलनैक्यान्तरं स्फुटम् ॥ ३८ | अग्रतः पृष्ठतस्तस्मात् क्रान्तिवृत्ते त्रिभेऽन्तरे | तयोर्याम्योत्तरैकत्वात् तत्र नो वलनं स्फुटम् ॥ ३९ । न स्पष्टवलनाभावस्तत्र स्यादुत्क्रमज्यया । क्रमज्यया ततः कार्यं दाढ्यर्थं कथ्यते पुनः ।। ४० । सर्वतः क्रान्तिसूत्राणां ध्रुवे योगो भवेद्यतः । विषुवन्मण्डलप्राच्या ध्रुवे याम्या तथोत्तरा ॥ ४१ | सर्वतः क्षेपसूत्राणां ध्रुवाजिनलवान्तरे । योगः कदम्बसंज्ञोऽयं ज्ञेयो वलनबोधकृत् ॥ ४२ ॥ तत्रापमण्डलप्राच्या याम्या सौम्या च दिक् सदा । कदम्बभ्रमवृत्तं च बघ्नीयात् परितो ध्रुवात् || ४३ । . गोले तु जिनतुल्यांशैस्तत्र ज्या क्रान्तिशिञ्जिनी | सर्वतः समवृत्ताच्च याम्योदक्कुजसंगमे ।। ४४ । तत्तिर्यग्गतसूत्राणां योगः स समसंज्ञकः । समध्रुवकदम्बानामुपरि छुचरान्नयेत् ।। ४५ । ४२५ १. अत्र बिम्बीयवलनमिष्टं चेबिम्बीयद्यज्या ग्राह्या । सि०-५४