पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ सिद्धान्तशिरोमणी गोलाध्यायं शीघ्रग्रगे युतिर्याता गम्या पृष्ठगते यतः । प्रागृणं तद्धनं पश्चात् क्रियते लम्बनं तिथौ ॥ २८ । याम्योत्तरं शरस्तावदन्तरं शशिसूर्ययोः । नतिस्तथा तया तस्मात् संस्कृत: स्यात् स्फुटः शरः ।। २९ । वा० भा० - स्पष्टार्थमिदं ग्रहणवासनायां व्याख्यातं च ॥ २१-२३ | वा० वा० - अर्कात् कुत्र चन्द्रावलम्बनमित्याह - यत्र तत्रेति । पूर्वापरञ्चेति । । स्पष्टम् । यदिति लम्बनानयने रविट्टङ्मण्डले रविहग्ज्याकर्णस्त्रिभोनलग्नदृग्ज्या दृक्क्षेपवृत्ते भुजो दृनतिः कोटिरिति क्षेत्रमस्ति । तत्र त्रिभोनलग्नदृग्ज्योत्पन्नं यल्लम्बनं सा न- तिर्भुज: रविहग्ज्योत्पन्नं दृग्लम्बनं कर्ण: । दृङ्नतिजनितं स्पष्टलम्बनं कोटिः । दृक्लम्बननत्योरानयनमाह - 'परलम्बनलिप्ताघ्नी त्रिज्याप्ता रविहग्ज्यकेति ।' परमलम्बनानयनमाह — गत्यन्तरस्येति । कुतो गत्यन्तरतिथ्यंशः परलम्बन - मित्यत्र कारणमाह - गतियोजनतिथ्यंश इति । गत्यन्तरकलाभिः षष्टिघटिकास्तदा लम्बनकलाभिः का इत्यनुपातेन लम्बनकलानां घटीकरणमाह - स्युरिति । अधश्चन्द्रा- वलम्बनमिति प्रागग्रतो रवेश्चन्द्रः पश्चात् पृष्ठेऽविलम्बित 'इत्युक्तम्' । पूर्वाह्वापराह्णयोः कथमृणं धनं तिथौ लंबनं क्रियत इत्यत्राह - शीघेऽग्रगे युति- रिति । शराभावेऽपि खस्वस्तिकादन्यत्रस्थे त्रिभोनलग्ने रविग्रहणसमये यद्याम्यो- त्तरमन्तरं ग्राह्यग्राहकयोरुपलभ्यते सा शुद्धा नतिः । शरसद्भावे शरसंस्कृता नतिः । यत्र षट्षष्टिभागा पलांशास्तत्र यथावस्थितं गोले बद्धं क्रान्तिवृत्तमेव भूगर्भक्षितिजम् । तत् क्षितिजयाम्योत्तरवृत्तसम्पाते यदा त्रिभोनलग्नं तदा परमा नतिः । चन्द्रा दर्शान्तकालिकौ षट्षष्टिभागपलांशविषये यदा याम्योदक्षितिजस्थौ भवतस्तदा भूपृष्ठनरक्षितिजाद्भूगर्भंक्षितिजस्य भूव्यासार्द्धयोजनैरन्तरितत्वाद्भूपृष्ठक्षितिजा- - दधो रविचन्द्रकक्षामण्डले भूव्यासार्द्धयोजनैर्लम्बिते भवतः । कक्षयोरन्तरं याम्योत्तरं नतिरियं परमा । अक्षोदङ्मध्यमक्रान्तिसाम्येनावनतेरभावः । तस्मान्नत्या संस्कृत: शरः स्पष्टः स्याद् ग्राह्यग्राहककक्षाभेदादित्याह- याम्योत्त रमिति ॥ २१-२९ । अथ वलनवासनामाह- तुलाजाद्योर्हि संपाते विषुवत्क्रान्तिवृत्तयोः । स्यातां याम्योत्तरे भिन्ने परक्रान्त्यन्तरे च ते ।। ३० । आयनं वलनं तत्र जिनांशज्यासमं ततः । एकैवाऽयनसंधौ तु तयोः स्यादक्षिणोत्तरा ।। ३१ । एकैव तद्वशात् प्राची तत्र नो वलनं ततः । तदन्तरेऽनुपातेन खेटकोटिक्रमज्यका || ३२ |