पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहणवासना कक्षयोरन्तरं यत् स्याद्वित्रिभे सर्वतोऽपि तत् । याम्योत्तरं नतिः सात्र दृक्क्षेपात् साध्यते ततः ।। २० । नोया । वा० भा० - इदमेव छेद्यकं याम्योत्तरायां भित्तौ पूर्वपाइवें लिखित्वा नत्युपपत्तिर्दर्श- तत्र कक्षामण्डले ते दृवक्षेपमण्डले । दर्शान्ते त्रिभोनलग्नस्य या दृग्ज्या स दृक्क्षेपः । द्वयोरपि तावान् । ब्रह्मगुप्त मते तु तच्चापांशा वित्रिभलग्नशर संस्कृताश्चन्द्रद्वक्षेत्र चापांशाः स्युः | तयोर्वृत्तयोः खार्धात् स्त्रस्व वृक्क्षेपचापांशैर्नतौ बिन्दू कार्यों । तौ च वित्रिभसंज्ञौ । ततः प्राग्वद्भू- मध्याद् भूपृष्ठाच्च सूत्रे प्रसायं लम्बनलिप्तिका ज्ञेयास्ता नतिलिप्तिकाः । नतिर्नाम चन्द्रार्ककक्षयो- र्याम्योत्तरमन्तरम् । तद्वित्रिभलग्नस्थाने यावत् सर्वतोऽपि तावदेव भवति । अतो दृक्क्षेपात् साधिता मतिः ।। १६३-२० । वा० वा०-- ० -- नतिलिप्ताज्ञानार्थमाह - अथेति । ये कक्षामण्डले तेऽत्रेति । दृक्क्षेपमण्डलं नाम त्रिभोनलग्नहङ् मण्डलम् | ब्रह्मगुप्तेन त्रिभोनलग्नवशेन लम्बनाव- नती साधिते तेन त्रिभोनलग्नहग्ज्याया स दृक्क्षेपो द्वयोरपीत्युक्तम् । तच्चापांशैरिति । कुतो दृक्क्षेपान्नतिसाधनं कृतमित्यत आह -- कक्षयोरिति ॥ १७-२० । इदानों स्फुटलम्बनार्थमाह - यत्र तत्र नतादर्कादधश्चन्द्रावलम्बनम् । तद्दृग्वृत्तेऽन्तरं चन्द्रभान्वी: पूर्वापरं तु तत् || २१ । पूर्वापरं च याम्योदग्जातं तेनान्तरद्वयम् । अत्रापमण्डलं प्राची तत्तिर्यग्दक्षिणोत्तरा || २२ | यत् पूर्वापरभावेन लम्बनाख्यं तदन्तरम् । यद्याम्योत्तरभावेन नतिसंज्ञं तदुच्यते || २३ | नतिलिप्ता भुजः कर्णो दृग्लम्बनकलास्तयोः । कृत्यन्तरपदं कोटिः स्फुटलम्बनलिप्तिकाः ॥ २४ । परलम्बनलिघ्नी त्रिज्याप्ता रविदृग्ज्यका । दृग्लम्बनकलास्ता स्युरेवं दृक्क्षेपतो नतिः || २५ | परलम्बनलिप्तिकाः४६ । तिथ्यंशः ४२३ गत्यन्तरस्य गतियोजन तिथ्यंशः कुदलस्य ५ यतो मितिः ।। २६ । ७९० ३५ ११८०९ स्युर्लम्बनकला नाड्यो गत्यन्तरलवोद्धृताः । प्रागग्रतो रवेचन्द्रः पश्चात् पृष्ठेऽवलम्वितः || २७ ।