पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये अङ्गुलचतुष्टयव्यासवृत्तेऽपि ये पञ्चसहस्रमिताङ्कास्त एव पञ्चसहस्रयोजनाङ्का इति कल्पनादिष्टापवर्त्तने न कोऽपि दोषः । येन महतेष्टेन भूरपवर्त्तिता तेनैव चन्द्रार्ककक्षे अप्यपवर्त्तनीये इत्युक्तं तदपि युक्तम् । योजनपरिमाणसाम्यसम्पादनस्य सर्वत्रा- वश्यकत्वात् ४२२ भूमिछेद्यकलिखनाद् भित्तिछेद्यक लिखने बालानां झटिति बोधो भवतीति खाद्धच्चिन्द्राकौं कुत्रावगन्तव्यावित्याह — दृग्ज्याचापांशकैर्न तौ भित्तावित्युक्तम् । कृत्वार्केन्दु इति । लम्बनोपपत्ति दर्शयति एकमिति । नहि भूगर्भ कस्यचिदवस्थानं संभवति । तत्र स्थितस्य भूम्यवरोधेन चन्द्रार्कदर्शनं च संभवतीति भूमध्यतः सूत्रमित्युक्तम् । द्रष्टुर्भूपृष्ठगादन्यदिति लम्बनलिप्ता : प्रदर्शयति - - कक्षायामिति । चन्द्रार्कयोः खार्द्धात् समान्तरेण नतत्वाद्दर्शान्ते गर्भसूत्रे सदा स्यातां चन्द्रा समलिप्तिका वित्युक्तम् । लम्बनपदप्रवृत्तिनिमित्तमाह - Eक्सूत्रादिति । दर्शान्ते खस्वस्तिक रवौ लम्बनाभाव इत्याह—दृग्गर्भसूत्रयोरैक्यादिति । लम्बनशब्दस्य पूर्वापरयाम्योत्तर- लम्बनद्वयसाधारणत्वाल्लम्बनमात्रस्याभावोऽत्र विवक्षितः । यदा याम्योत्तरवृत्तस्थो रविर्दर्शान्ते तदा पूर्वापरलम्बनाभावस्य स्वीकृतत्वात् खस्वस्तिकगे रवौ पूर्वापरलम्बना- भाव इति वक्तुमनुचितं खस्वस्तिकस्यापि याम्योत्तरवृत्तस्थत्वात् । नापि खस्वस्तिकगे रवौ दर्शान्ते याम्योत्तरलम्बनाभावो विवक्षित इति वाच्यम् । यदा दर्शान्ते क्रान्ति- मण्डलं सममण्डलाकारं स्यात्तदैव याम्योत्तरलम्बनाभाव इति स्वीकरणेनैव खस्वस्ति- कगे रवौ नतेरभाव इत्यस्यापि गतार्थत्वात् । यदा सममण्डलवदपमवृत्तं तदा खस्व- स्तिकगं मध्यतमं तदेव त्रिभोनलग्नं भवति तत्र त्रिभोनलग्नहग्ज्याभाव एव । यथा लङ्कायां चरपूर्वापरदेशान्तराभावस्तथा खस्वस्तिकगे रवौ लम्बननत्योरभावः । लङ्कायाम्योत्तररेखायां पूर्वापरदेशान्तराभावस्तथा याम्योत्तरवृत्तस्थे रवौ पूर्वापर- लम्बनाभावः । यथा च लङ्कापूर्वापररेखायां चराभावस्तथा क्रान्ति मण्डलस्य सम- मण्डलानुकारित्वे नतेरभावः । लङ्कापूर्वापरयाम्योत्तररेखातोऽन्यत्र चरदेशान्तरे भवत- स्तथात्राप्यन्यत्रस्थे लम्बनावनती स्याताम् । अत्रापमण्डलं प्राची तत्तिर्यग्दक्षिणोत्तरेति वक्ष्यते । अत्रापमण्डलस्थचन्द्र चिह्नमेव चन्द्रपदेनोच्यते ॥ १२-१६ । इदानीं नत्युपपत्तिमाह - अथ याम्योत्तरायां तु भित्तौ पूर्वोक्तमालिखेत् ।। १७ । ये कक्षामण्डले तत्र ज्ञेये दुक्क्षेपमण्डले । त्रिभोनलग्नदृग्ज्या या स दृक्क्षेपो द्वयोरपि ।। १८ । तच्चापांशैर्न तौ बिन्दू कृत्वा वित्रिभसंज्ञकौ । तल्लम्बनकलाः प्राग्वज्ज्ञेयास्ता नतिलिप्तिकाः । १९ ।