पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहणवासना कृत्वाकेन्द्र समुत्पत्तिं लम्बनस्य प्रदर्शयेत् । एकं भूमध्यतः सूत्र नयेच्चण्डांशुमण्डलम् ॥ १४ ॥ द्रष्टुर्भूपृष्ठगादन्यदृष्टिस्त्र तदुच्यते । कक्षायां सूत्रयोर्मध्ये यास्ता लम्बनलिप्तिकाः ॥ १५ ॥ गर्भ सदा स्यातां चन्द्रा समलिप्तिकौ । दृक्सूत्राल्लम्बितश्चन्द्रस्तेन तल्लम्बनं स्मृतम् ।। १६ । दृग्गर्भसूत्रयोरैक्यात् खमध्ये नास्ति लम्बनम् । ४२१ वा० भा० - स्पष्टार्थमपि स्वरूपमात्रं व्याख्यायते। कुदलेनोच्छ्रितो द्रष्टा दृङ्‌मण्डले स्वस्थानान्तं ग्रहं पश्यति । अतस्तज्ज्ञानार्थं पृथिवोव्यासार्धस्य यं जनानि कक्षाव्यासाधंस्य च योजनान्येकेन केनचिद्धरेण छित्वा तेन प्रमाणेन भित्तौ विलिखेत् । एतदुक्तं भवति । भूव्यासः कुभुजङ्गसायकभू १५८१ मितानि योजनानि । एतानि केनचिन्महता हरेण छिन्नानि । तद्दलं भूव्यासार्धम् । तेनैव छेदेन चन्द्रार्ककक्षाव्यासार्धं छिन्ने । ते तद्वयासाधें भवतः । एवं कृत्वा भित्तावुत्तरपाइवें बिन्दुं कृत्वा तस्माद् बिन्दोर्भुव्यासार्धेन भूवृत्तं कृत्वा कक्षाव्यासार्धाभ्यां कक्षावृत्ते च कार्ये । तस्माबिन्दोरूर्ध्वरेखा तियंग्रेखा च कार्या | तिर्य- ग्रेखा यत्र कक्षायां लग्ना तत्र क्षितिजं कल्प्यम् । ऊध्वंरेखा यत्र लग्ना तत्र खमध्यं कल्प्यम् । एवं चन्द्रकक्षायां रविकक्षायां च । ते च कक्षे भगणांश ३६० रङ्कनीये । ते च न्द्रार्कयोवृंङ्‌मण्डले । अथ दर्शान्तेऽर्कस्य या दृग्ज्या तच्चापांश: खमध्यान्नतो बिन्दु कार्य: । एवं चन्द्राकक्षायामपि तावद्भव नतांशः । तो बिन्दू रविचन्द्रौ कल्प्यौ । अथ भूमध्याद्रविबिन्दुगामिनि रेखा कार्या सा रेखा चन्द्रं भित्त्वा वि याति । अथ भूपृष्ठगाद्रष्टुरन्या रेखा रविबिन्दु नेया सा रेखा चन्द्र न लगति । तयोः सूत्रयोर- न्तरे चन्द्रकक्षायां याः कला दृश्यन्ते ता लम्बनलिप्ताः । अथवा द्रष्टुश्चन्द्र बिन्दूपरिगत रेखा रविकक्षायां नेया तत्र सूत्रयोरन्तरे याः कला दृश्यन्ते ता वा लम्बनलिप्तास्तुल्या एव भवन्ति । भूगर्भाद्या नीता रेखा तद्गर्भसूत्रम् | समकलौ चन्द्राको तत्र सदैव भवतः । अथ या रेखा द्रष्टू रविबिन्दु नीता तत्दृक्सूत्रमुच्यते । दृक्सूत्राचचन्द्रो लम्बितो भवति । अतस्तल्लम्बनम् । अथ यदा चन्द्रार्कों खमध्ये भवतस्तदा गर्भदृष्टिसूत्रयोरैक्यमतस्तत्र लम्बनाभावः । इयं दुमडले लम्बनस्योपपत्तिदंशिता ।। १२-१६३ । वा० वा०—लम्बनोपपत्त्यर्थं छेद्यकमाह - इष्टापवत्तितामिति । तिर्यग्रेखायुता- विति । कृत्वेति - भूवृत्तं चन्द्रार्ककक्षावृत्तं च कृत्वा भूगर्भाच्चन्द्रार्ककक्षावृत्तपरिधि- पर्यन्तं तिर्यग्वृद्धे रेखे च विधेये । कक्षायां तिर्यग्रे खायुतौ क्षितिजमूर्ध्वरेखायुतौ खार्द्ध च विधेयम् । तत्र पञ्चसहस्रयोजनपरिमिता भूमिर्लम्बनोपपत्त्यर्थं लिखितुमशक्येति केनचिन्महतेष्टेनापवत्तिता लेखनीयेति सम्यगुक्तम् ।