पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२० सिद्धान्तशिरोमणी गोलाध्याये स्थितिश्च लध्वी एतत्कारणद्वयान्यथानु पपत्त्याकंस्य छादकोऽन्यः । स च लघुः । एवं रवी- न्द्वोनं छादको राहुरिति वदन्ति । कुतः । विग्देशकालावरणादिभेदात् । एकस्य प्राकृ स्पर्श: । इतरस्य पश्चात् । रवेः क्वापि ग्रहणमस्ति क्वापि नास्ति । क्वापि दर्शान्तादग्रतः क्वापि पृष्ठतः । अतो राहुकृतं न ग्रहणम् । नहि बहवो राहवः । एवं के वदन्ति । केवलगोलविद्या- स्तदभिमानिनश्च । इदं संहितावेदपुराणबाह्यम् । यतः संहितासु राहुरष्टमो ग्रहः । स्वर्भानुहं वा आसुर: सूर्यं तमसा विव्याधेति माध्यंदिनी श्रुतिः । सर्वं गङ्गासमं तोयं सर्वे ब्रह्मसमा द्विजाः । सर्वं भूमिसमं दानं राहुग्रस्ते दिवाकरे ॥ इत्यादि पुराणवाक्यानि । अतोऽविरुद्धमुच्यते । राहुरनियतगतिस्तमोमयो ब्रह्मवरप्रदाना- भूभां प्रविश्य चन्द्रं छादयति चन्द्रं प्रविश्य रवि छादयतीति सर्वागमानामविरुद्धम् ॥ ७-१० । वा० वा०— सूर्य ग्राहकाच्चन्द्रग्राहको भिन्न एवापेक्षित इति सयुक्तिकं वृत्तद्वयेन प्रतिपादयति - छादक इति । अर्द्धखण्डिततनोरिति । दिग्देशकालावरणादिभेदैरुभयग्रहणेन राहोग्रहकत्वं संभवतीति वदतां वेद- संहितापुराणविरोधो महदूषणमित्याह - दिग्देशकालावरणादिभेदादिति । 'राहुस्तम आसुरि: सूर्यं तमसा विव्याघेत्यादयः श्रुतयः राहुग्रस्ते निशाकरे इत्यादि पुराणानि राहुरुदयादि दृष्ट: 'प्रदक्षिणं हन्ति विप्रादीनिति' संहिता राहुकारितं ग्रहणमिति प्रतिपादयन्ति । ब्रह्मगुप्तेन या श्रुतिर्देशिता राहुग्राहकत्वे सा श्रुतिश्वेतायाः श्वेत- वत्सायाः श्रुत्यर्थेति चतुर्वेदाचार्येण राहुग्राहकत्वतात्पर्याभावः समर्थितः । तात्पर्याभावे कथमनया राहुग्राहकत्वं सिद्धेदित्युक्तं तदयुक्तम् । नहि तात्पर्याभावेन प्रामाण्याभावः सिद्धयतीति भूतार्थवादप्रामाण्येन देवताविग्रहादिसिद्धिवद्राहुग्राहकत्वं सिद्धयत्येव । मताविरोधार्थमाह - राहु: कुभामण्डलग इति । 'उपरागपरागतं तमो राहु- रिति' पुराणादिमतं कुमुदिनीपतिपातो राहुरिति गणितमतं गणकैः स्वाभिमतराहोर्न ग्राहकत्वमित्युच्यत इति न कोऽपि विरोधः ।।७-१० इदानीं ते लम्बनावनती कुतो हेतोः कृत इति कुदलेन साध्येते इत्यस्य प्रश्नस्थोत्तरमाह - यतः क्वर्धोच्छ्रितो द्रष्टा चन्द्रं पश्यति लम्बितम् | साध्यते कुदलेनातो लम्बनं च नतिस्तथा ।। ११ । वा० भा० - स्पष्टम् ॥ ११ ॥ वा० वा० - किं ते सिद्धे कुतः कुत इति प्रश्नस्योत्तरमाह-यत इति ॥ ११॥ इदानीं बालावबोधार्थं छेद्यकप्रकारेण लम्बनमाह - इष्टापवर्तितां पृथ्वीं कक्षे च शशिसूर्ययोः । भित्तौ विलिख्य तन्मध्ये तिर्यग्रेखां तथोर्ध्वगाम् ।। १२ । तिर्यग्रेखायुतौ कल्प्यं कक्षायां क्षितिजं तथा । ऊर्ध्वरेखायुतौ खाधं दृग्ज्याचापांशकैर्नतौ ॥ १३ ॥ C