पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहणवासना ४१९ चन्द्रग्रहे कुतो न लम्बनावनती इत्याह – समकलकाले इति । चन्द्रकक्षास्थभू- छाययैव समकलकाल एव चन्द्रः छाद्यत इति छाद्यछादकयोः समकक्षात्वमुक्तम् । इन्दोः प्राच्यां प्रग्रह इति प्रश्नस्योत्तरमाह - पूर्वाभिमुख इति प्राक् प्रग्रहण - मित्यत्र प्रागाश्रितमित्युक्तमेवं सर्वत्र । भूच्छायायाः कथं चन्द्रकक्षागमनमिति प्रतिपादयति - भानोरिति । चन्द्र- कक्षायां भूच्छायाविस्तृतिः सा भूभा बिम्बमित्युच्यते । अनुपातेन भूभा दैर्घ्यविस्तारौ साध्यावित्याह - अनुपातादिति । चन्द्रग्रहे 'व्यस्तदिशः शराः स्युरेतस्य कारणं वदति- भूभेन्द्वोरिति । सूर्यग्रहे क्रान्तिवृत्तस्थ- सूर्यग्राह्याद्ग्राहकश्चन्द्रो विमण्डलस्थः शरान्तरेण शरदिश्येव भवति । ग्राह्यः प्रत्यक्षं दृश्यते कुत्रास्य ग्राहक इति चन्द्रग्रहे व्यस्तशरदिश्येवेति स्पष्टम् ||२-६| इद्रानों छादकनिर्णयमाह- छादकः पृथुतरस्ततो विधोरर्धखण्डित तनोर्विषाणयोः । कुण्ठता च महती स्थितिर्यतो लक्ष्यते हरिणलक्षणग्रहे । ७ । अर्धखण्डिततनोर्विषाणयोस्तीक्ष्णता भवति तीक्ष्णदीधितेः । स्यात् स्थितिर्लघुरतो लघुः पृथक् छादको दिनकृतोऽवगम्यते ॥ ८ ॥ दिग्देशकालावरणादिभेदान्नच्छादको राहुरिति ब्रुवन्ति । यन्मानिनः केवलगोलविद्यास्तत् संहितावेदपुराणबाह्यम् ।। ९ । राहुः कुभामण्डलग शशाङ्क शशाङ्कगरछादयतीनबिम्बम् । तमोमयः शंभुवरप्रदानात् सर्वागमानामविरुद्धमेतत् ।। १० । वा० भा०- -अर्कच्छादकाच्चन्द्रच्छादक: पृथुतरोऽवगम्यते । कुतः । यतोऽधंखण्डित- स्येन्दोविषाणयो: कुण्ठता दृश्यते स्थितिश्च महती । अर्कस्य पुनरर्धखण्डितस्य तीक्ष्णता विषाणयोः १. व्यस्तादेश इति कपु० । २. अत्र लल्ल - ग्रहणे कमलासनानुभावाद्भुतदत्तांशभुजोऽस्य सन्निधानम् | यदतः स्मृतिवेदसंहितासु ग्रहणं राहुकृतं गतं प्रसिद्धिम् ॥ शि० धी० गो० मिथ्या २७ श्लो० । अत्र श्रीपतिः -- भूच्छायायां प्रविष्टः स्थगयति शशिनं शुक्लपक्षावसाने राहु ब्रह्मप्रसादात् समधिगतवरस्तत्तमो व्यासतुल्यः । ऊध्वंस्थं भानुबिम्बं सलिलमयतनोरप्यधोवति बिम्बं संसृत्यैवं च मासव्युपरतिसमये स्वस्य साहित्यहेतोः ॥ सि० शे० ९६ अ० १५ श्लो० ।