पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ सिद्धान्तशिरोमणौ गोलाध्याये इदानीं नतिलम्बनयोः कारणमाह - पर्वान्तेऽकं नतमुडुपतच्छन्नमेव प्रपश्येत् भूमध्यस्थो न तु वसुमतीपृष्ठनिष्ठस्तदानीम् । तद्दृक्त्राद्धिमरुचिरधो लम्बितोऽर्कग्र हेतः कक्षाभेदादिह खलु नतिर्लम्बनं चोपपन्नम् || २ | समकलकाले भूभा लगति मृगाङ्के यतस्तया म्लानम् । सर्वे पश्यन्ति समं समकक्षत्वान्न लम्बनावनती ॥ ३ | पूर्वाभिमुखो गच्छन् कुच्छायान्तर्यतः शशी विशति । तेन प्राक् प्रग्रहणं पश्चान्मोक्षोऽस्य निःसरतः ॥ ४ ॥ भानोबिंम्बपृथुत्वा'दपृथुपृथिव्याः प्रभा हि सूच्यग्रा | दीर्घतया शशिकक्षामतीत्य अनुपातात् तद्दैर्घ्यं शशिकक्षायां च तद्बिम्बम्” । भूभेन्दोरन्यदिशि व्यस्तः क्षेपः शशिग्रहे तस्मात् ।। ६ । दूरं बहिर्याता ।। ५ । वा० भा - दर्शान्तकाले रवि पूर्वतः पत्रिमतो वा नतं चन्द्रेण छन्नमेव प्रपश्यति भूमध्यस्थो द्रष्टा । यतो दर्शान्ते समौ भवतः । यो भूपृष्ठस्यो द्रष्टा स तदाकं छन्नं न पश्यति । यतस्तदृष्टिसूत्राच्चन्द्रोऽधो लम्बितो भवति । अतः कक्षाभेदाल्लम्बनं नतिश्चोपपद्यते । चन्द्रग्रहे तु लम्बननत्योरभावः । यतः समकलकाले भूभा चन्द्रे लगति तथा छन्नं सर्वे विदेशान्तरस्था अपि नतमपि तं चन्द्रं समं पश्यन्ति । यतस्तत्र छाद्यच्छादकयोरेकैव कक्षा जाता । तथा भूभा तावत् पूर्वाभिमुखमर्कंगत्या गच्छति । चन्द्रश्च स्वगत्या । स शीघ्रत्वात् पूर्वाभि- मुखो गच्छन् भूभां प्रविशति । तेन तस्य प्राक् स्पर्श: । भूभाया निःसरत पश्चान्मुक्तिः । भानोबिम्बं विपुलं पृथ्वी लघुः । अतो भूभा सूच्यग्रा भवति । दीर्घत्वेन चन्द्रकक्षामतीत्य दूरं गता । तद्देर्घ्यमनुपातात् साध्यते । चन्द्रकक्षाप्रदेशे भूभा चन्द्रबिम्बं चेति सर्वं ग्रहणे प्रतिपादितमेव ।। २-६। वा० वा० – तिथ्यन्ते चेद् ग्रह उडुपतेः किन्न भानोस्तदानीमिति प्रश्नस्यो- त्तरमाह–पर्वान्तेऽर्कमिति । द्रष्टुर्भूपृष्ठनिष्ठत्वतुल्यत्वेऽपि कक्षाभेदान्नतिर्लम्बनमुत्पद्यत इत्याह-कक्षा- भेदादिति । १. भानोबिम्बमहत्त्वादिति वा पाठः । २. अत्र बापूदेवः – दिवाकर निशानाथपरलम्बनसंयुतिः । सूर्यबिम्बाधरहिता भूमाबिम्बदलं भवेत् ||