पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहणवासना दूषणम् | गणितगोलानभिज्ञानां पूर्वग्रन्थतात्पर्यानभिज्ञानामापातप्रतिपन्नपूर्वंग्रन्थार्थग्रा- हिणां गणिते कवित्वकरणव्यसनं द्यूतादिव्यसनवन्निरर्थकमित्याह- जानन्ति ये न निपुणं गणितं सगोलं येषां हि तन्त्रकरणव्यसनं वृथैवेति । आद्या यन्न विचित्रभङ्गिभिरभिप्रेतप्रसिद्धी क्रिया लघ्वी वाथ समा तदेव सुधिया कार्यं प्रकारान्तरमिति नूतनग्रन्थकरणं सार्थकमिति पूर्वमेव द्योतितम् | ये तु परिविशेषं गृहीत्वा मत्कृतोऽयं विशेष इति वदन्ति तन्नामापि न गृह्णन्ति । परग्रन्थं संपूर्ण विभज्य स्वनाम्ना तं वा तादृशं प्रथयन्ति ते निरयगामिन एव । ३८-४९ । श्रीमत्कौङ्कणवासिकेशवसुतात् प्राप्तावबोधो बुधाद् भट्टाचार्यसुता दिवाकर इति ख्याताजनि प्राप्तवान् । कृष्णस्तनयेन तस्य रचिते सवासनावात्तिके सत्सिद्धान्तशिरोमणेरियमगात् गणकाचार्यनृसिंहकृतौ यः इति ४१७ त्रिप्रश्नसवासना । त्रिप्रश्नाधिकारः । अथ ग्रहणवासना चन्द्रार्कंग्रहणयोः स्पर्शे मोक्षे च दिग्व्यत्ययस्योपपत्तिमाह -- पश्चाद्भागाजलदवदधः' संस्थितोऽभ्येत्य चन्द्रो भानोम्बिं स्फुरदसितया छादयत्यात्ममूर्त्या | पश्चात् स्पर्शो हरिदिशि ततो मुक्तिरस्यात एव क्वापिच्छन्नः क्वचिदपिहितो नैष कक्षान्तरत्वात् ।। १ । चा० भा० --अर्कावधश्चन्द्रकक्षा । यथा मेघोऽधःस्थः पश्चाद्भागादागत्य रवि छादयति । एवं चन्द्रोऽपि शीघ्रत्वात् पश्चाद्भागादागत्य रवि छादयति । ततः पश्चात् स्पर्श: । निःसरति चन्द्रे पूर्वतो मोक्षो रवेः । अत एव कक्षाभेदात् क्वचिदर्कश्छन्नो दृश्यते क्वचिद्वेष न छन्नः । यथाथ:स्थे मेघे कैश्चिद्रविनं दृश्यते कैश्चिदृश्यते प्रदेशान्तरस्थैः ॥ १ ॥ १. जलदवदधोऽवस्थिोऽभ्येत्येति पाठान्तरम् | २. तरेणेः इति खपु० । ३. छत्रः इति खपु० । कपु० च छिन्नः इति । सिं० - ५३ वा० भा० - अथ ग्रहणवासना । तरणे: प्रग्रहः किं प्रतीच्यामिति प्रश्नस्योत्तर- माह–पश्चाद्भागादिति । येन मेघवदाच्छादयति तेन क्वापि छन्नः क्वचिदपिहित इत्याह क्वापीति ॥ १ ॥