पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ गोलाध्याये कर्क्यादयः सौम्यनता हि येऽच ते यान्ति याम्याक्षवशादृजुत्वम् । कालेन तस्माद्बहुनोदयन्ते तदन्तरे स्वं चरखण्ड मेव ||१८| वा० भा० विषुवदहोरात्रवृत्तानि लङ्कायां समपश्चिमगानि | राशिवलयं तु मकरादौ परमकान्त्या विषुवन्मण्डलाद्दक्षिणतो मिथुनान्त उत्तरतो लग्नमतस्तिरश्चीनम् । तत्रापि मेष: स्वक्रान्त्या महत्या तिरश्चीन उदेति । अतोऽल्पकालोदय: । वृषभस्तदल्पयातस्तस्मात् किंचिदधिककालः । मिथुनस्तदल्पयातस्तदधिककालः । एवं निरक्षेऽपि न समा उदया: । अथ ये मकरादयो याम्ये नतास्ते याम्याक्षवशादतिनता उद्गच्छन्ति स्वदेशेऽतोऽल्पकालोदयाः । ये तु कर्यादयः स्वस्वक्रान्त्या सौम्ये नतास्ते याम्याक्षवशादृजुत्वं गता उद्यन्ति । अतरिचरकालोदयाः । लङ्कास्वदेशोदययोरन्तराले स्वं चरखण्डमेव भवति । यतस्तत्क्षितिजयोरन्तराले ।। १६-१८ । वा० वा० --भवलयस्य किलार्कलवा: समा इति प्रश्नस्योत्तरमाह - - 'यो हि प्रदेशोऽपममण्डलस्येति' । न विषयेष्वखिलेष्वपि ते समा इति प्रश्नस्योत्तरमाह - - ‘य उद्गमे याम्यनता इति । कर्यादय इति ।। १६-१८ । अथ चरखण्डैरूनाधिकत्वं गोलभ्रमणोपरि यथा प्रतीयते तथाह--- भचक्रपादास्तिथिनाडिकाभिः पृथक् समुद्यन्ति निरक्ष देशे । चक्रार्धमाद्यं च तथा द्वितीयं सर्वत्र पूर्णाग्निमिताभिरेव ।। १९ । मेषादेमिंथुनान्तो नाडीभिस्तिथिमिताभिरुद्वृत्ते । लगति कुजे तदधःस्थे प्रथमं ताभिश्चरोनाभिः ।। २० । कन्यान्ताद्धनुषोऽन्तस्तिथिमितनाडीभिरुद्वलये लगति कुजे चोर्ध्वस्थे पश्चात् ताभिश्वराढचाभिः || २१ । तद्रहितत्रिंशद्भिः कन्यान्तो वा झषान्तो वा । चरखण्डैरूनाढ्यास्तेन निरक्षोदयाः स्वदेशे स्युः ।। २२ । क्षितिजेऽजादिं कृत्वा गोलं भ्रमयन् प्रदर्शयेत् सर्वम् । उक्तमनुक्तं चान्यच्छिष्याणां बोधजनतार्थम् ॥ २३ ॥ । वा० भा० -- उदयवासना स्फुटगत्यध्याये कथितैव । इह तु मेषादि क्षितिजे कृत्वा गोलं भ्रमयन् क्रमेण यदुक्तं वक्ष्यमाणं च सर्वं दर्शयेत् । तत्र सर्वं दृश्यत इत्यर्थं ।। १९-२३ ।। वा० वा० – निरक्षे मेषादिराशित्रयस्य योगः पञ्चदशघटीतुल्य : साक्षे मेषादि- रसभयोगस्त्रिशद्घटीतुल्य एवेत्याह - भचक्रपादा इति । भवन्तीत्याह- मेषादेरिति । कथं चरखण्डोनयुता निरक्षोदया: स्वोदया - कन्यान्तादिति । सायनमेषादिः कन्यान्तश्च क्रान्त्यभावादुन्मण्डलक्षितिजसम्पाते लग- तीति मेषादेमिथुनान्तः कन्यान्ताद्धनुषोऽन्त इत्युक्तम् ।