त्रिप्रश्नवासना ४०९ भार्धान्तरत्वान्न विधोरधःस्थं तस्मान्निशीथः खलु पौर्णमास्याम् । कृष्णे रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम् ॥ १४ ॥ वा० भा० - स्पष्टम् ॥ १३-१४ । वा० वा० - पितृषु किं शशिमासमितमिति प्रश्नस्योत्तरमाह - विधूर्ध्वभाग इति । भार्द्धान्तरत्वादिति । सर्वं ब्रह्माण्डं करतलकलितामलकवत्पश्यतो ब्रह्मणः कल्पपर्यन्तं दिनं संभवति सूर्यस्य तावत्कालपर्यन्तं स्थितत्वात् ॥ १३ १४ । अथ ब्रह्मदिनोपपत्तिमाह - यदतिदूरगतो द्रुहिणः क्षितेः सततमाप्रलयं रविमीक्षते' । भवति तावदयं शयितश्च तद्युगसहस्रयुगं युनिशं विधेः ||१५| वा० भा० - दूरस्थितत्वादाप्रलयं रवि पश्यति । दिनान्ते रव्यादीनुपसंहृत्य शेत इत्यर्थः ॥ १५ ॥ वा० वा० - युगसहस्रमितमिति प्रश्नस्य 'यदतिदूरगत' इत्यनेनोत्तरं दत्तम् ॥ १५ ॥ इवानीमुदयवासनामाह - यो हि प्रदेशोऽपममण्डलस्य तिर्थस्थितो यात्युदयं तथास्तम् । सोऽल्पेन कालेन य ऊर्ध्वसंस्थोऽनल्पेन सोऽस्मादुदया न तुल्याः ॥१६॥ य उद्गमे याम्यनता मृगाद्याः स्वस्वायमेनापि निरक्षदेशे । याम्याक्षतस्तेऽतिनतत्वमाप्ता उद्यन्ति कालेन ततोऽल्पकेन ||१७| केशवाकंः - अथाप्यसौ केवलवासनायां नायाति सिद्धं तदपि प्रियं नः । • अवासनं कि न सुरधुरात्रमर्कायनाभ्यां भवतैव भेजे । सिद्धान्तपक्षस्तु परं दिनार्धान्निशा निशाधात् परतो दिनश्रीः । एवं पुराण गणिते च साम्यमर्कायनाभ्यां सदसत्फलेषु ॥ कर्कं गतेऽर्के हि सुरापराह्नः फलं पुना रात्रिवदाहुरस्य । नक्रं गते चापररात्र मेषामेतत्परं वासरवत् स्मरन्ति || अतश्च कैश्चिद्दशमीष्वपि प्राक्कापालिको वेधविधिः किलोक्तः । मासोज्य एवं नियमव्रतादौ पित्र्ये निशाधें सति पौर्णमास्याम् || १. अत्र श्रीचन्द्रदेवः- तिथ्युद्धृता भानुगतिः कलाद्यमाप्तं फलं तेन युता जिनांशाः । तांश्चाक्षभागान् प्रविकल्प्य साध्या ह्यक्षश्रुतिः सा र विभिवियुक्ता || अहंता भूदलयोजनघ्नी स्यादुच्छ्रितिस्तन्मितयोजनैश्च । भूपृष्ठतस्तुङ्गगतो विधिश्चेन्मि सदैवाप्रलयं स पश्येत् ॥ सि० - ५२
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४५१
दिखावट