पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०७ त्रिप्रश्नवासना यत्र देशे लम्बांशाश्चतुर्विंशतिभागेभ्योऽल्पास्तत्रैवार्कस्य लम्बाधिका क्रान्ति- रुत्पद्यते । यादृशे राश्याद्यवयवे स्थितार्कस्य लम्बाधिका क्रान्तिर्यावत् पर्यन्तमुत्पद्यते तादृश राश्याद्यवयवस्थितार्कस्तावत्पर्यन्तं दृश्यत इति तावद्दिनमित्युक्तम् । तदहोरात्र- वृत्तस्य क्षितिजोपरि स्थितत्वात् । मेरौ तु नाडिकांमण्डलं क्षितिजं तत्रोत्तरा क्रान्तिः सर्वापि लम्बाधिकेति सौम्यगोलस्थेऽर्के षण्मासपर्यन्तं दिनं भवतीत्याह ततश्च मेराविति - भवति किं युनिशं युनिवासिनामिति प्रश्नस्योत्तरं दत्तम् ॥ ५३–७ । इदानीं मेरुसंस्थानमाह - विषुववृत्तं द्युसदां क्षितिजत्वमितं तथा च दैत्यानाम् । उत्तरयाम्यौ क्रमशो मूर्धोर्ध्वगती व यतस्तेषाम् ॥ ८ ॥ उत्तरगोले क्षितिजादूर्ध्वे परितो भ्रमन्तमादित्यम् । सव्यं त्रिदशाः सततं पश्यन्त्यसुरा असव्यगं यामधे ।। ९ । वा० भा० - स्पष्टार्थम् ॥ ८-९ । वा० वा० – मेरुस्थानां वडवानलस्थानां नाडीमण्डलं कथं क्षितिजमिति प्रति- पादयति विषुववृत्तमिति । उन्मण्डलस्थध्रुदस्तेषां मस्तके भवतीति वदता उन्मण्डलं तेषां सममण्डल- मित्युक्तं भवति । तत्र नाडीमण्डलस्य क्षितिजत्वे किं चित्रम् । - देवदैत्यानां सव्यापसव्यकरणं च संभवतीत्याह् - उत्तरगोल इति ॥ ८ ९ । इदानीं दिनरात्रिस्वरूपे पितृदिनं चाह - 'दिनं दिनेशस्य यतोत्र दर्शने तमी तमोहन्तुरदर्शने सति । कुष्पृष्ठगानां द्युनिशं यथा नृणां तथा पितॄणां शशिपृष्ठवासिनाम् ।।१०। वा० भा० – (पष्टम् ।। १० । वा० वा० – दिनरात्रिलक्षणमाह - दिनमिति । अत्राचार्यैर्लक्ष्यतावच्छेदकं भूपृष्ठनिष्ठमनुष्यदिनत्वं कृतं पितृब्रह्मदिनसाधारणं न कृतम् । अन्यथा कुपृष्ठगाना- मित्युत्तराद्धं व्यर्थं स्यात् मध्यमाधिकारवात्तिके लक्षणद्वयातिव्याप्त्यव्याप्तिविचारो ब्रह्मदिनवशेन कृतः स कृत्वा चिन्तान्यायपरः | चन्द्रपृष्ठवासिनामप्यहोरात्रव्यवस्था - स्तीति दृष्टान्तेनाह - कुपृष्ठगानामिति ॥ १० ॥ १. अत्र श्रीपतिः - सदुद्गतो दिनकर: सुरासुरैरपि वत्सरार्धमवलोक्यते स्फुटम् । पितृभिश्च मासदलमिन्दुगोलगैर्छुदलं महोतलगतैश्च मानत्रैः ।। सि० शे० १५ अ० ५८ श्लो० ।