पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ सिद्धान्तशिरोमणी गोलाध्याये इवानों दिननिशोलंघुत्वमहत्त्वे हेतुमाह-- अतथ सौम्ये दिवसो महान् स्याद्रात्रिर्ल घुर्व्यस्तमतच याम्ये । द्यरात्रवृत्ते क्षितिजादधःस्थे रात्रिर्यतः सदा समत्वं निशोर्निरक्षे नोन्मण्डलं तत्र कुजाद्यतोऽन्यत् । स्यादिनमानमूर्ध्वं ॥५॥ वा० भा० -- क्षितिजादुपरस्थेऽहोरात्रवृत्तखण्डे यावान् कालस्तावान् दिवसः । यावांस्त- दध:स्थे तावती रात्रिरिति सुगमम् ॥ ५-५३ | वा० वा० – अतश्चेति - षष्टिघटिकाङ्कितद्युरात्रवृत्तावयवो यावान् स्वक्षिति जोपरि तावद्दिनमिति सम्यगुक्तम् । निरक्षे बद्धं क्षितिजमुन्मण्डलं तेन सर्वाण्यपि रात्रवृत्ताद्धानि कृतानि | उन्मण्डलादुपरि यावदहोरात्रं तावदधस्तात् । उत्तरध्रुवः स्वोत्तरक्षितिजादुपरि दृश्यते साक्षदेशस्थैरस्माभिरिति सौम्यगोले स्वक्षि- तिजादुपरि उन्मण्डलं याम्येऽधश्चेति महदह इत्यादि । निरक्षे कुजादन्योन्मण्डलाभावाद् द्युनिशोः समत्वमित्याह सदेति ॥ ५–५३ । इवानों विशेषमाह -- षट्षष्टिभागाभ्यधिकाः पलांशा यत्राथ तत्रास्त्यपरो विशेषः ।। ६ । लम्बाधिका क्रान्तिरुदक् च यावत् तावद्दिनं सन्ततमेव तत्र । यावच्च याम्या सततं तमिस्रा ततश्च मेरौ सततं समार्धम् ।। ७ । वा० भा० - - यत्र देशे षट्षष्टे ६६ रधिका: पलांशास्तत्रायं विशेषः । अस्योत्तरा क्रान्तिर्यावत्कालं लम्बाधिका भवति तावत्कालं सन्ततं दिनमेव याम्या क्रान्तिर्यावत् तावत् सन्ततं रात्रिरेव । तद्यथा । यत्र किल सप्ततिः ७० पलांशास्तत्र लम्बो विशतिः २० । तत्र देशे विषुववृत्तं दक्षिणक्षितिजादुपरि भार्गवंशत्योत्तर क्षितिजादधश्च तावता । यदा रवेरुत्तरा क्रान्तिर्भाग विशतिर्भवति । तदोत्तरक्षितिजे रविबिम्बमर्थोदितं भूत्वा मध्याह्न दक्षिण क्षितिजादु- पर याम्योत्तरमण्डले भागचत्वारिंशतोन्नतं भवति । तदा त्रिशद्घटिका दिनदलम् । अतो दिनं षष्टिः । रात्रिः शून्यम् । ततो द्वितीयदिन उत्तरक्रान्तेरधिकत्वाद्रविरुत्तरक्षितिजं न स्पृशति । एवं प्रतिपर्यंयं परमक्रान्ति यावदुपर्युपरि परिभ्रमति । एवं मिथुनान्त उत्तर क्षितिजादुपरि भागचतुष्टयं याति । पुनस्तेनैव क्रमेणावरोहति । विशतिभागाधिका क्रान्तिर्यावत् तावत्कालं रविः सततं दृश्य: । तावद्दनमेव । अनयैव युक्तचा दक्षिणगोले क्षितिजाद:स्थेऽके सन्ततं रात्रि- रिति । अत एव मेरो षण्मासं दिनम् ॥ ५३–७ । वा० वा० – यत्र षट्षष्टिभागा: पलांशास्तत्र कर्कादिस्थितार्के षष्टिघटीमितं दिनं न तत्र रात्रिः । किन्त्वर्कखण्डं लोहितं क्षितिजस्थं क्षणमात्रं भवति । तस्मिन् देशे मकरादिस्थार्के सायने षष्टिघटीमिता रात्रिर्न किञ्चिद्दिनम् । तत्राप्यर्कबिम्बार्द्धलौहित्य- दर्शनं क्षितिजे । रसषट्पलांशपर्यन्तं युनिशो: षष्टिघटीमध्येऽवस्थानं तद्देशादग्रे षष्टिघटी- भ्योऽधिकमप्यवस्थानं संभवतीति तत्प्रतिपादयति- षट्षष्टिभागाभ्यधिका इति । लम्बाधिका क्रान्ति रिति । -