पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नवासनां ४०५ यष्ट्यां दृढं बद्ध्वा यष्टयग्रयो : प्रोते नलिकाद्वये निबद्धौ खगोलदृग्गोलौ कृत्वा भगोलभ्रमणं दर्शयेत् ।। २६-३१ । इति श्रीभास्कराचार्यविरचिते गोलवासनाभाष्ये मिताक्षरे गोलबन्धा- धिकारः समाप्तः । अत्र ग्रन्थसंख्या १८० । वा० वा०- ० -- ईप्सितक्रान्तितुल्येऽन्तरे सर्वतो नाडिकाख्यादित्यादि ॥ २७-३१ । श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुद्धाद् भट्टाचार्यसुतादिवाकर इति ख्याताञ्जनि प्राप्तवान् । यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके सत्सिद्धान्तशिरोमणेरयमगाद्गोलस्य बन्धः स्फुटः || अथ त्रिप्रश्नवासना तत्रादौ चरस्थानमाह - उन्मण्डलक्ष्मावलयान्तराले द्युरात्रवृत्ते चरखण्डकालः । तज्ज्यात्र कुज्या चरशिञ्जिनी स्याद्व्यासार्धवृत्ते परिणामिता सा ॥१॥ वा० भा० - - क्षितिजोन्मण्डलयोमंध्येऽहोरात्रवृत्ते यावान् कालः स चरखण्डकालः । तत्रोन्मण्डलादुभयतश्चरतुल्ये चिह्न कृत्वा तयोनिबद्धसूत्रस्याधं कुज्या | सँव त्रिज्यावृत्तपरिणता सती चरज्या स्यादिति त्रिप्रश्ने व्याख्यातम् ॥ १ ॥ वा० वा० - अथ त्रिप्रश्नाध्यायवासना | तत्र कुज्याचरज्या स्थानमाह - उन्मण्डलक्ष्मावलयान्तराल इति ॥ १ ॥ इदानीं लङ्कास्वदेशादययोन्तरं चरकालमाह -- निरक्षदेशे क्षितिजाख्यवृत्तमुन्मण्डलं तज्जगुरन्यदेशे । स्वे स्वे कुजेऽर्कस्य समुद्र मोऽस्माच्चरार्ध मर्कोदययोस्तु मध्ये ||२| वा० भा० -- स्पष्टार्थम् ॥ २ ॥ इदानीं चरफलस्य धनणं वासनामाह- आदौ स्वदेशेऽथ निरक्षदेशे सूर्योदयो ह्यस्तमयोऽन्यथातः । ऋणं ग्रहेऽस्मादुदये स्वमस्ते फलं चरोत्थं रविसौम्यगोले ||३| याम्ये विलोमं खलु यत्र यस्मादुन्मण्डलं स्वक्षितिजादधस्तात् । नाड्याह्वयादुत्तरयाम्यभागौ गोलस्य तावुत्तरयाम्यगोलौ ॥४॥ वा० भा० -- सुगमं पूर्व व्याख्यातं च || ३ | वा० वा०- - ग्रहे चरसंस्कारयुक्तिमाह – निरक्षदेश इति । आदाविति । अस्माकं रेखादयास्तकालिका ग्रहा अपेक्षिता इति चरसंस्कारः क्रियते । महदहः किमहो रजनी तनुरित्यस्योत्तरमाह - नाड्याह्वयादिति ॥ २ - ४ |