पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकार: ४०३ तस्मिन् सपाते क्षेपकेन्द्रकरणाथं ग्रहः क्षेप्य: । अतस्तुल्यशोध्यक्षेपयोर्नाशे कृते शीघ्रोच्चपातयोंग एवावशिष्यत इत्युपपन्नम् । किच मन्दस्फुटोनं शीघ्रोच्चं प्रतिमण्डले चलकेन्द्रम् । तत् पाते क्षेप्तुं युज्यते । एवं कृते सति विक्षेपकेन्द्रं मन्दफलेनान्तरितं स्यात् । ग्रहच्छायाधिकारे सितज्ञपातौ स्फुटौ स्त- श्चलकेन्द्रयुक्तावित्यत्र मन्दस्फुटोनं शीघ्रोच्चं शीघ्र केन्द्रं पाते क्षिप्तम् । अतस्तत्र मन्दफला- न्तरमङ्गीकृत मित्यर्थ: । इतरकेन्द्रस्यानुपपत्तेः । अतो मन्दफलं पातेऽव्यस्तं देयम् । यतोऽनु- पातसिद्धं चलकेन्द्रं मध्यप्र होनशीघ्रोच्चतुल्यं भवति । यत्तु भगोले क्रान्तिवृत्तं तत् कक्षा- वृत्तम् । तत्र यद्विमण्डलं तत्र स्फुटग्रहः । तत्स्फुटपातयोगो हि विक्षेपकेन्द्रम् | अतः स्फुट- पातस्थाने संपातं कृत्वा ततस्त्रिभेऽन्तरे स्फुटीकृतैः परमविक्षेपांश: प्राग्वदुसरे दक्षिणे च विन्यस्यम् । तथा न्यस्ते विमण्डले स्फुटग्रहस्थाने विक्षेपः स्फुटविक्षेपेण गणितागतेन तुल्यो दृश्यते नान्यथेत्यर्थः ॥ २३-२४३ । वा० वा० – अत्र मन्दकर्णेन यद्वृत्तमुत्पद्यते तत् कक्षामण्डलमिति कर्णानुपातो न कृतः । बुधशुक्रोच्चात्साधितौ शरौ बुधशुक्रशरौ भवत इत्यत्र चतुर्वेदेनानध्यवसाय: कृतस्तत्रोपपत्तिमाह — ये चात्र पातभगणा इति । चलाद्विशोध्य इति । मन्दस्पष्टोनं शीघ्रोच्चं शीघ्रकेन्द्रं तत्र पातो योज्य: सम्पूर्णपातो भवति । स सम्पूर्णपातो मन्दस्पष्टे योज्य: शरसाधनार्थं केन्द्रं भवति । तत्र संशोध्यमानं स्वमृणमित्यनेन सुगमम् । स्पष्टबुधशुक्राभ्यां शरसाधने कीदृशः स्पष्टपातः सांध्य इति प्रतिपादयति - स्फुटो- नशीघ्रोच्चयुतौ स्फुटाविति । स्पष्टपातस्थानं दर्शयति – भगोले स्फुट एव पात. इति ॥ २३-२४३ । इदानीं ग्रहगोले विशेषमाह- ग्रहस्य गोले कथितापमण्डलं प्रकल्प्य कक्षावलयं यथोदितम् ||२५| निबध्य शीघ्रप्रतिवृत्तमस्मिन् विमण्डलं तत् पठितैः शरांशैः । मध्योऽत्र पातो घुसदां ज्ञभृग्वोः स्वशीघ्रकेन्द्रेण युतस्तु देयः ||२६| वा० भा० -- भगोल एव तावद्ग्रहगोलः कल्प्यः । तत्र स्फुट एव पातः । अथ यदि तदन्तर्ग्रहगोलोऽन्यो निबध्यते तदा तत्र यथोक्तं विषुववृत्तं च बद्ध्वा तत् क्रान्तिवृत्तं कक्षा- मण्डलं प्रकल्प्य तत्र छेद्यकोक्तविधिना शोघ्रप्रतिमण्डलं बद्ध्वा तत्र प्रतिमण्डले गणितागतं पातं मेषादेविलोमं गणयित्वा तत्र चिह्नं कार्यम् । अथ त्रिज्याव्यासाधंमेवान्यद्वृत्तं राश्यङ्कं विमण्डलाख्यं कृत्वा तत्रापि मेषादेव्यंस्तं पाताग्रे चिह्नं कृत्वा प्रतिमण्डल विमण्डलयोः पातचिह्न प्रथमं संपातं ततो भार्थान्तरे द्वितीयं च संपातं कृत्वा पातादग्रतः पृष्ठतश्च त्रिभेऽन्तरे परम- विक्षेपांशैः पठितैः प्रतिवृत्तादुत्तरे दक्षिणे च विमण्डलं विन्यस्यम् । तत्र मन्दस्फुटगत्या पार- माथिको ग्रहो भ्रमति । अतो मेषादेरनुलोमं मन्दस्फुटो विमण्डले देय । स तत्रस्थः प्रतिमण्ड- लाद्यावतान्तरेण विक्षिप्तस्तावांस्तत्प्रदेशे विशेषः । यतो वृत्तसंपातस्थे ग्रहे विक्षेपाभावः । त्रिभेऽन्तरे परमो विक्षेपः । मध्येऽनुपातेन । अतो वृत्तसंपातग्रहयोरन्तरं ज्ञेयम् । तदन्तरं पात-