पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ सिद्धान्तशिरोमणी गोलाध्याये क्रान्तिः स्पष्टादेव साध्यते प्रत्यक्षदृष्टे किमनुपपन्नं नामेति सर्वं शोभनम् । मन्दस्पष्टो द्राक् प्रतिमण्डले भ्रमति तत्रैव तस्य पातो लक्षितः । यन्त्रवेधविधिना या शरानुपलब्धि- स्तया शराभावो गृह्यते । शराभावे त्ववश्यं गणितागतपातचिह्न ग्रहेण भाव्यम् । मेषादेर्गणितागतं भाद्यं पातं विलोमं दत्त्वा चिह्नं कार्यम् । तच्चिह्ने षड्भान्तरितचिह्न वा मेषादेर्भादिकग्रहोऽनुलोमगत्याऽवश्यं भवत्येव । तत्र यदा भौमादीनां शराभावो दृष्टस्तदा मन्दस्पष्ट एव पातचिह्न दृष्ट इति शीघ्रप्रतिमण्डलभ्रमणमाक्षिपतीति मन्द- स्फुटो द्रागिति सम्यगुक्तम् । यस्माद् गणितागतपतो मन्दस्पष्टे योज्य इति सिद्धमतो विलोमशीघ्रफलसं- स्कृतपातयुतस्पष्टाच्छरसाधनं फलाविशेषाद्युक्तमित्याह - पातेऽथवेति । केवलयोज्ययो- जकयोगेऽभीष्टोनयुक्तयोज्ययोजकयोर्वा योगे फलाविशेषाच्छीघ्रफलतुल्यमत्रेष्टं कल्पितम् । त्रिज्यातुल्यया सपातमन्दस्पष्टदोर्ज्यया शीघ्रकर्णेन भक्तास्त्रिभज्या गुणा ग्रहपरक्षेपभागा लभ्यन्ते तदेष्टया किमिति शरसाधनं कृतम् । यद्वा सपातमन्दस्पष्टदोर्ज्या पठितशरगुणा त्रिज्याभक्ता शीघ्रप्रतिमण्डल- स्थग्रहशरः स्यात्तस्य कक्षावृत्तीयकरणार्थं कर्णानुपातः कृतः । भौमादिपाता मन्दस्पष्टस्थानीयत्वेन शीघ्रप्रतिमण्डलस्था जाताश्चन्द्रपातस्य कुत्रावस्थानं चन्द्रस्य शीघ्रप्रतिमण्डलाभावादित्यत आह - चन्द्रस्य कक्षावलये हि पात इति । मन्दस्पष्टस्यैवं चन्द्रस्य सर्वदा स्पष्टत्वेन 'स्फुटाद्विधोर्मंध्यमपातयुक्तादित्युक्तम्' । कथं चन्द्रस्य मध्यमपात एव कक्षामण्डलस्थो जातो नान्येषामिति नाशङ्कनीयं यतो विचित्रा फलवासनात्रेति निरूपितत्वात् ॥ २० - २२ । इदानों ज्ञशुक्रयोविशेषमाह - - ये चात्र पातभगणाः पठिता ज्ञभृग्वोस्ते शीघ्र केन्द्र भगणैरधिका यतः स्युः । स्वल्पाः सुखार्थमुदिताञ्चलकेन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ ।।२३। चलाद्विशोध्यः किल केन्द्रसिद्धयै केन्द्र सपाते ह्युचरस्तु योज्यः । अतश्चलात् पातयुताज्जभृग्वोः सुधीभिराद्यैः शरसिद्धिरुक्ता ||२४| स्फुटोनशीघ्रोच्चयुतौ स्फुटौ तयोः पातौ भगोले स्फुट एव पातः । वा० भा० -- ननु ज्ञशुक्रयोः शीघ्रोच्चपातयुति केन्द्रं कृत्वा यो विक्षेप आनीतः स शीघ्रोच्चस्थान एव भवितुमर्हति । न ग्रहस्थाने । यतो ग्रहोऽन्यत्र वर्तते । अत इदमनुपपन्न मिव प्रतिभाति । तथा च ब्रह्मसिद्धान्तभाध्ये ज्ञशुक्रयोः शीघ्रोच्चस्थाने यावान् विक्षेपस्तावानेव यत्र तत्रस्थस्यापि ग्रहस्य भवति । अत्रोपलब्धिरेव वासना नान्यत् कारणं वक्तुं शक्यत इति चतुर्वेदेना प्यनध्यवसायोऽत्र कृतः | सत्यम् । अत्रोच्यते । येऽत्र ज्ञशुक्रयोः पातभगणा: पठितास्ते शीघ्र केन्द्र भगणैर्युताः सन्तस्तद्भगणा भवन्ति । तथा च माधवीये सिद्धान्तचूडामणौ पठिताः । अतोऽल्पभगणभवः पात: स्वशीघ्र केन्द्रेण युतः कार्य: । शीघ्रोच्चाद्ग्रहे शोधिते शीघ्रकेन्द्रम् ।