पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकार: ४०१ वाराणसीतः पञ्चदशयोजनान्तरे पूर्वा दिगवस्थिते कुसुमपुरे स्थितस्य च किय- दन्तरमिति त्रयोविंशतियोजनात्मकमन्तरं तथात्रेति सुगमम् । सौरे तु विलोमगत्या गतपातस्य चक्रशोधनेन यावदवशिष्यते तावता राश्याद्यवयवेन मेषादेरनुलोमगत्या पातचिह्न ज्ञायत इति पातग्रहयोरेकदिगव- स्थितत्वेनान्तरं कृतम् । यद्यपि वक्रगतौ ग्रहेऽद्यतनग्रहचिन्हात स्पष्ट ग्रहराश्याद्य- वयवेनाद्यतनश्वस्त नग्रह चिन्हमनुलोममेव भवतीति धनायनांशयुतस्पष्टग्रहादवक्रगतौ वक्रगतौ वा ग्रहे क्रान्तिः साध्यते । ननु नाडीमण्डलक्रान्तिमण्डलसंयोगस्य नाडीमण्डलाश्रितत्वेन क्रान्तिपातस्थानस्थे स्पष्टग्रहे सायनस्पष्टखेटक्रान्तिसाधनोक्तेर्मध्यमक्रान्त्यभावस्तत्रैव नाडिकावृत्तखेटान्तराले स्पष्टोऽपम इत्यनेन स्पष्टक्रान्त्यभावोऽपि स्यात् । स्पष्टक्रान्त्यभावो द्वेधा संभवति । मध्यमक्रान्तिशररूपयोः स्पष्टक्रान्तिखण्डयोर्युगपदभावात्तुल्यत्वेन दिगन्यत्ववियोज- नाद्वा । तत्र युगपदभावोऽपि सार्वदिकः कादाचित्को वा । क्रान्तिपातयुतात् स्पष्टखे- टान्मध्यमक्रान्तिसाधनाच्छरपातयुतान्मन्दस्पष्टाच्छरसाधनात् क्रान्तिपातशरपातगति- वैषम्येन मन्दस्पष्टस्पष्टयोरन्तरसद्भावेन च सार्वदिकयुगपदभावो न संभवति । मध्यमक्रान्त्यभावे स्पष्टखेटस्य नाडिकामण्डलाश्रितत्वेन नित्यं स्पष्टक्रान्त्यभावेन भाव्यमिति कादाचित्को युगपदभावः क्रान्तिशरयोर्वक्तुमशक्यः | मध्यमक्रान्त्यभावे मध्यमक्रान्त्युत्पत्तिर्बाधितैवेति । मध्यमक्रान्तिशरयोस्तुल्यत्वेन दिगन्यत्ववियोजनं न संभवति । यदा मध्यमक्रान्त्यभावस्तदा शराभाव इति' नियमाभावान्नाडिकावृत्तखेटा- न्तराले उपम इति सदुक्तं तदयुक्तम् । किञ्चात्र खेटशब्देन स्पष्टो वा मन्दस्पष्टो वा विवक्षितः । स्पष्टविवक्षायां स्पष्टादेव शरसाधनं स्यात् । मन्दस्पष्टविवक्षायां मध्यमक्रान्तिसाधनं मन्दस्पष्टादेव स्यात् । तस्मान्मध्यमक्रान्त्यभावे नाडीमण्डलाश्रितस्पष्टस्य शरोत्पत्या स्पष्टक्रान्ति- मध्यमक्रान्तिसद्भावे नाडोमण्डलादन्यत्र स्थितस्यापि स्पष्टक्रान्त्यभावश्च स्यादिति नाडिकावृत्तखेटान्तरालेऽपम इति यदुक्तं तदयुक्तमिति चेत् । उच्यते । ग्रहनाडीमण्ड- ·लयोर्दक्षिणोत्तरमन्तरं स्पष्टक्रान्तिरिति नाडिकावृत्तखेटान्तरालेऽपम इति शोभनम् । ग्रहस्तु विमण्डले भ्रमतीति ग्रहाश्रितविमण्डलावयवनाडीमण्डलसम्पातो यदा तदा स्पष्टकान्त्यभावः । क्रान्तिवृत्तस्थस्पष्टग्रहचिह्नं यदा नाडीमण्डले तदा मध्यमक्रान्त्यभावो भवति न तदा स्पष्टक्रान्त्यभावो ग्रहस्य शराग्रे स्थितत्वात् । यन्त्रवेधविधिना ग्रहस्य स्पष्टा क्रान्तिः शरोऽपि प्रत्यक्षं गृह्यते । प्रत्यक्षोपलब्ध - शरस्तु मन्दस्पष्टसाधितशरेणैव सम्वदतीति मन्दस्पष्टाच्छरसाधनं क्रियते । मध्यम- १. नियशभावा, इति खपु० । २. लैयम इति खपु० । ३. वाक्यप्रदं खपु० नास्ति । सि० - ५१