४०० सिद्धान्तशिरोमणी गोलाध्याये इदानीं विक्षेपपातानाह - - एवं क्रान्तिविमण्डलसंपाताः क्षेपपाताः स्युः । चन्द्रादीनां व्यस्ताः क्षेपानयने तु ते योज्याः ॥२०॥ मन्दस्फुटो द्राक्प्रतिमण्डले हि ग्रहो भ्रमत्यत्र च तस्य पातः । पातेन युक्ताद्गणितागतेन मन्दस्फुटात् खेचरतः शरोऽस्मात् ||२१| पातेऽथवा शीघ्रफलं विलोमं कृत्वा स्फुटात् तेन युताच्छरोऽतः । चन्द्रस्य कक्षावलये हि पातः स्फुटाद्विधोर्मध्ममपातयुक्तात् ||२२| वा० भा० - तथा क्रान्तिवृत्त विमण्डलयोः संपात: क्षेपपात: । तं ग्रहे प्रक्षिप्य क्षेपः साध्य: । एतदुक्कं भवति । क्रान्तिपातः प्रसिद्धः । यथा तं ग्रहे प्रक्षिप्य क्रान्ति: सध्यते । रग्वं विक्षेपपातं ग्रहे प्रक्षिप्य क्षेपः साध्य इत्यर्थः । अथ विक्षेपपातो मन्दस्फुटे यत् प्रक्षिप्यते तत्कारणमाह । मन्दस्फुट इति । यतः शीघ्रप्रतिमण्डले मन्दस्फुटगत्या ग्रहो भ्रमति | तत्र च वृत्ते पातोऽतो गणितागतं पातं मन्दस्फुटे प्रक्षिप्य क्षेपः साध्यते । शेषं स्पष्टम् ॥२०-२२॥ वा० वा० – एवं क्रान्तिपातस्वरूपमुक्त्वा शरपातस्वरूपं शरसाधनार्थं तत्संस्कारं च ग्रहेष्वाह-एवमिति । पतनं पातः पतनं नाम मिलनम् । तत्र नाडी- मण्डलक्रान्तिमण्डलयोः किञ्चिदवयवसंयोगेऽपि संयुक्ताविति प्रतीतेः संयोगः सम्पातः क्रान्तिपात इत्युक्तम् । क्रान्तिमण्डलशरमण्डलयोः सम्पातः शरपात इत्युच्यते । ननु स्पष्टखेटा क्रान्तिपातयुक्ताद्यथा क्रान्तिः साध्यते तथा शरपातयुक्ता- स्पष्टखेटा कुतो न शरः साध्यत इत्यत्र प्रश्नस्योत्तरमाह -- मन्दस्फुटो द्राक् प्रति- मण्डले हीति । मन्दस्पष्टसाधितः शरः संवदतीति पातस्य शीघ्रप्रतिमण्डले भ्रमण- मभ्युपगतम् । क्रमणं क्रान्तिः । कस्मात्क्रमणमिति नाडीमण्डलादिति नाडिकामण्ड- लात्तियंगत्रापम इत्यनेन प्रागभिहितम् । तिर्यगिति दक्षिणोत्तरभावेनेत्युक्तम् । तत्र क्रान्तिमण्डलावधिक्रमणं क्रान्तिमंध्यमा चन्द्रादीनाम् । क्रान्तिमण्डलाच्छरः क्षेपवृत्तावधि । नाडीमण्डलात् क्षेपवृत्तावधि चन्द्रादिग्र- हनक्षत्राणां स्पष्टा क्रान्तिः । क्रान्तिपातस्थानस्थे स्पष्टग्रह मध्यमक्रान्तेरभावः । शरपातस्थानस्थे मंन्दस्पष्टे शराभाव: । क्रान्तिपाताङ्कादग्रतः पृष्ठतस्त्रिभेऽन्तरे परमा मध्यमा क्रान्तिश्चतुर्विंशत्यंशमिता | शरपाताङ्कादग्रतः पृष्ठतस्त्रिभेऽन्तरे शीघ्रकर्णेन भक्तास्त्रिभज्या गुणाः पठितपरमशरभागाः यावन्तः सम्पद्यन्ते तावन्प- रमः शरस्तत्रेति सुगमम् । उच्चग्रहो मेषादेरनुलोमं गच्छत इति ग्रहोच्चान्तरतः फलं साधितम् । एकदिग्गतयोगंत्यन्तरतुल्यमेव तयोरन्तरमिति प्रसिद्धः । मेषादे राश्याद्यनुलोम- तपातस्यान्तरं पातग्रहयोगेनैव राश्यादिप्रतिलोमगत्या गत्या ज्ञातग्रहस्य यथा नन्दकाननात् पश्चिमदिशि योजनाष्टकान्तरे प्रयागे स्थितस्य सिध्यति ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४४२
दिखावट