सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकार: ३९९ वर्षेर्धनायनांशानां हासेनाभावो भवति । ततस्तैरेव वर्षे ऋणायनांशानां हासेना- भाव इति वृद्धिह्रासात्मकपदचतुष्टयात्मक एको भगण इति स्वोकृतम् । कर्कादिस्थितिकालोऽवधिकालस्तस्मादनन्तरमयनप्रवृत्तौ चक्रपश्चाच्चलनम् । अवधिकालात्प्रथममयनचलने प्राकूचलनमित्ययुक्तम् । क्रान्तिमण्डलनाडिमण्डलसम्पा- तस्य प्रदेशत्वेन प्रदेशान्तरगमनायोगात्कथं चक्रचलनमित्यत आह - उपचारोऽयमिति । सप्तर्षभग्रहाणां कर्कादिस्थितेः प्रागूर्ध्वमयनप्रवृत्तिचलनाच्चक्रस्य समूहस्यैव चलन- मित्युच्यते। एवं कर्कादिस्थग्रहाणां मध्यमक्रान्त्युत्पन्ना ये यन्त्रेण भुजांशास्तेषां नवत्यंशानामन्तरमयनांशाः । एवं प्रत्यब्दमत्र गतिज्ञेया । ब्रह्मसिद्धान्तेऽत्युक्तम्- कर्कादिस्थाः मृगादिस्थाः सृष्टेरुदगवाङ्मुखम् । प्रत्यब्दे यान्ति याम्योदग्गमने विहितेऽपि यत् ॥ तत्पश्चाच्चलितं चक्रमुपचारोऽयमित्यपि ॥ कर्कादिस्थेषु सप्तर्षिषु तेषां यन्त्रेण याम्योत्तरवृत्ते नतोन्नतांशा ज्ञेयाः । तेभ्यो विलोमप्रकारेण मध्यमः क्रान्त्यंशो ज्ञेयः । एवं मृगादिस्थेष्वपि । कर्कादौ मृगादौ याम्यमुत्तरमयनं च लोकप्रसिद्धम् । तत्र कर्कादिस्थानामपेक्षिते याम्यगमनं [ मृगादिस्थानामुत्तरगमनमेव ] प्रतीयते तदा ऋणायनांशाः पश्चाच्चलनं [ चक्र- स्येत्यर्थः । ]'

  • त्रिंशकृत्यो युगे भानां चक्रं प्राक् परिलम्बते ।

तद्गुणाद् भूदिनैर्भक्ताद् द्युगणाद्यदवाप्यते । तद्दोस्त्रिघ्नो दशाप्तांशा विज्ञेया अयनाभिधा | इति तत्साधनोपायः कृतः सौरमते सम्प्रति ईदृशे कल्पगते १९७२९४८७२५ यनांशाः संवदन्त्येव । प्रतिवर्षमयनांशवृद्धिश्चतुः पञ्चाशद्विकलाः । मुञ्जालमते प्रतिवर्षं वृद्धिविकलाद्या ५९/५४ मतभेदे प्रत्यक्षोपलब्ध्या ये सिध्यन्ति त एवायनांशा ग्राह्या इति भाष्ये सम्यगुक्तम् । अयुतत्रयं कल्प इत्यत्र नियुतशब्दस्य लक्षसंख्यावाचकत्वेन नियुतत्रयं कल्प इति वा पाठ: साधीयान् । व्यस्ता इत्यनेन धनगता उक्ता । यावन्तो धनगतास्तावन्त एव ऋणगता इति नियुतषट्कं कल्पे भवन्तीति न किञ्चिद्विरुद्धम् । खेटे क्षेप्या इत्यनेन योग उक्त: 'योगे' युतिः 'स्यात्' क्षययोस्वयोर्वा धनर्णयोरन्तरमेव योगः । इति प्रसिद्धम् ॥ १७-१९ । १. कोष्ठान्तर्गतोंऽशः खपुस्तके नोपलभ्यते । २. सू० सि० त्रि० ९ श्लो० । ३. समगुक्तमिति खपु० ।