पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये वा० भा० -- क्रान्त्यर्थं पात: क्रान्तिपातः । पातो नाम संपातः । कयोः । विषुवत्क्रान्ति- वलययोः । नहिं तयोर्मेषादावेव संपात: किन्तु तस्यापि चलनमस्ति । येऽयनचलनभागा: प्रसिद्धास्त एवं विलोमगस्य क्रान्तिपातस्य भागाः । मेषादे: पृष्ठतस्तावद्भागान्तरे क्रान्तिवृत्ते विषुवद्वृत्तं लग्नमित्यर्थः । नहि क्रान्तिपातो नास्तीति वक्तुं शक्यते । प्रत्यक्षेण तस्योपलब्ध - त्वात् । उपलब्धिप्रकारमग्रे वक्ष्यति । तत् कथं ब्रह्मगुप्तादिभिनिपुणैरपि नोक्त इति चेत् । तदा स्वल्पत्वात् तैर्नोपलब्ध: । इदानीं बहुत्वात् साम्प्रतिकै रुपलब्धः । अत एव तस्य • गतिरस्तोत्यवगतम् । यद्येवमतुल पन्धोऽपि सौरसिद्धान्तोक्ऋत्वादागमप्रामाण्येन भगणप- ३९८ रिष्यादिवत् कथं तैनक्तिः | सत्यम् । अत्र गणितस्कन्ध उपपत्तिमानेवागमः प्रमाणम् । तर्हि मन्दोच्चपातभगणा आगमप्रामाण्येनेत्र कथं तैरुक्ता इति नच वक्तव्मम् । यतो ग्रहणां मन्दफलाभावस्थानानि प्रत्यक्षेणैवोपलभ्यन्ते । तान्येव मन्दोच्चस्थानानि यान्येव विक्षे- पाभावस्थाननि तान्येव पातस्थानानि । किंतु तेषां गतिरस्ति नास्ति वेति सन्दिग्धम् । तत्र मन्दोच्चपातानां गतिरस्ति । चन्द्रमन्दोच्चपातवदित्यनुमानेन सिद्धा | सा च कियती तदुच्यते । यैभंगणरुपलब्धिस्थानानि तानि गणितेनागच्छन्ति तद्भगणसंभवा वार्षिकी दैनं- दिनी वा गतिर्ज्ञेया। नन्वेवं यद्यन्यैरपि भगणेस्तान्येव स्थानान्यागच्छन्ति तदा कतरस्या गतेः प्रामाण्यम् । सत्यम् । तहि साम्प्रतिकोपलब्ध्यनुसारिणी कापि गतिरङ्गीकर्त्तव्या । यदा पुनमंहता कालेन महन्तरं भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां समानधर्माण एवोत्पत्स्यन्ते । ते तदुपलब्ध्यनुसारिणीं गतिमुररीकृत्य शास्त्राणि करिष्यन्ति | अतएवायं गणितस्कन्धो महामतिद्भिधृतः सन्ननाद्यन्तेऽपि काले खिलत्वं न याति । अतोऽस्य क्रान्तिपातस्य भगणा: कल्पेऽयुतत्रयं तावत् सूर्यसिद्धान्तोक्ताः । तथा मुञ्जा- लाद्यैर्यदयनचलनमुक्तं स एवायं क्रान्तिपातः । ते गोऽङ्गर्तुनन्दगोचन्द्रा १९९६६९ उत्पद्यन्ते । अथच ये वा ते वा भगणा भवन्तु | यदा येंऽशा निपुर्णरुपलभ्यन्ते तदा स एव क्रान्तिपात इत्यर्थ: । तं विलोमगं क्रान्तिपातं ग्रहे प्रक्षिप्य क्रान्ति: साध्या ।। १९-१९ । वा० वा० – तद्भगणाः सौरोक्ता इत्यत्रायुतत्रयं कल्पेऽयनांशभगणा इति वदता कल्पसौरवर्षीविंशत्यंशमित एवायनांशसाधने हरः स्वीकृतः । कथमन्यथा विशति- गुणितमयुतत्र्यं तद्भगणा इति वक्तव्येऽयुतत्रयमुक्तम् । तदुक्तभगणेभ्य एवमयनांशाः साध्या इत्युपायमनुक्त्वैव सिद्धवत्तत्संजातं पातं क्षिप्त्वा खेटेऽपम: साध्य इत्युक्तम् । तेभ्यस्तदुक्तभगणेभ्यस्तदुक्तरीत्या जातः पातस्तज्जातपात इति वक्तव्ये यत्तत्संजातं पातमित्युक्तं तस्यायमर्थः। तच्छब्देन गोङ्गर्त्तुनन्दगोचन्द्रा १९९६६९ अयुतत्रयं च परामृश्यति' । तेभ्यस्तदुक्तप्रकारागतपातो विसंवादेन जातः पातस्तत्सञ्जातः पात इत्युच्यते । कल्पगतवर्षेष्वयुतत्रयगुणितेषु विशतिभक्तकल्पवर्षभक्तेषु फलं तुल्यमाया- तीति तादृश एव हरः स्वीकृत इति गम्यते । " सौरे षट्शत ६०० मिता महात्युंगे भगणा उक्ताः । तेनैकभगणभोगवर्षाणि ७२०० तत्राष्टादशशतवर्षैः परमा सप्तविंशतिमिता धनायनांशवृद्धिर्भवति । पुनस्तैरेव १. परामृश्यते इति खपु० ।