सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेद्यकाधिकारः इदानीं गतिफलाभावस्थानमाह - कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसंपाते मध्यैव गतिः स्पष्टा परं फलं तत्र खेटस्य || ३९ । ३९३ वा० भा०- - कक्षावृत्तमध्ये या तिर्यग्रेखा तस्याः प्रतिवृत्तस्य च यः संपातस्तन्त्र मध्येव गतिः स्पष्टा । गतिफलाभावात् । किंच तत्र ग्रहस्य परमं फलं स्यात् । यत्र ग्रहस्य परमं फलं तत्रैव गतिफलाभावेन भवितव्यम् । यतोऽद्यतनश्वस्तनग्रहयोरन्तरं गतिः । फलयोरन्तरं गति- फलम् । ग्रहस्य गतेर्वा फलाभावस्थानमेव धनर्णसंधिः । यत् पुनर्लल्लोनम्- मध्येव गतिः स्पष्टा वृत्तद्वययोगगे धुचरे । इति । तदसत् । नहि वृत्तद्वययोगे ग्रहस्य परमं फलम् ॥ ३९ ॥ इदानीं ग्रहस्य वक्रत्वं छेद्यके यथा शीघ्रं दृश्यते तदर्थमाह - वंशोद्भवाभिः प्रतिमण्डलाद्य कृत्वा शलाकाभिरिदं यथोक्तम् । प्रचाल्य तुङ्गं खचरं च गत्या वक्रादि सर्वं खलु दर्शयेद्रा ॥४०॥ वा० भा० - वंशशलाकाभिश्छेद्यकं कृत्वा तत्राद्यतनस्फुटग्रहस्थानं चिह्न यित्वा द्वितीय दिन उच्च ग्रहं चोच्चवशान्मेवादि च प्रलप्यान्यत् स्फुटग्रहस्थानं चिन्ह्यम् । तत् पूर्व चिह्नाद्यदि पृष्ठगतं तदा बक्रा गतिज्ञेवा ॥ ४० ॥ इवान केन्द्रसंज्ञां स्फुटकक्षां चाह- वृत्तस्य मध्यं किल केन्द्रमुक्त केन्द्र ग्रहोच्चान्तरमुच्यतेऽतः । यतोऽन्तरे तावति तुझ्देशात्रीचोच्चवृत्तस्य सदैव केन्द्रम् ||४१॥ ग्रहस्य कक्षा चलकर्णनिघ्नी स्फुटा भवेद्वयासदलेन भक्ता । तद्वयासखण्डान्तरितः कुमध्यात्स भ्राम्यते हि प्रवहानिलेन ॥ ४२ ॥ वा० भा० – श्लोकद्वयमपि स्पष्टम् ॥ ४१-४२ । इवानों भुजान्तर कर्मोपपत्तिमाह -- मध्यमार्कोदयात् प्राक् स्फुटार्कोदयः स्यादृणे तत्फले स्वे यतोऽनन्तरम् । तेन भास्वत्फलोत्थासुजातं क्षयः स्वं फलं युक्तियुक्त निरुक्त ग्रहे ||४३ | वा० भा० - स्पष्टं स्फुटगतौ व्याख्यातं च ॥ ४३ ॥ इदानों छेद्यकोपसंहारेण गणकप्रज्ञां वर्णयन्नाह - ये दर्भगर्भाग्रधियोऽत्र तेषां स्याच्छेद्यकार्थः परमाणुरूपः । येऽन्ये जडाः कुण्ठधियश्च तेषां स्यादिन्द्रवज्राहतपक्षतुल्यः ।।४४। वा० भा० - इन्द्रवज्ञाहतपक्षः पर्वतस्तत्तुल्यश्छेद्यकार्थो जडानाम् । इन्द्रवद्राउन्दश्च सूचितम् । शेषं स्पष्टम् ॥ ४४ । इति श्रीभास्करीये गोलभाष्ये मिताक्षरे स्फुटगतिवासनायां छेद्यकाधिकारः । अत्र ग्रन्थसंख्या २४० | सि० - ५०