पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये इदानों मन्दकर्मणि कर्णः किं न कृत इत्याशङ्घोत्तरमाह- स्वल्पान्तरत्वान्मृदुकर्मणीह कर्णः कृतो नेति वदन्ति केचित् । त्रिज्योद्धृतः कर्णगुणः कृतेऽपि कर्णे स्फुटः स्यात् परिधिर्यतोत्र ||३६| तेनाद्यतुल्यं फलमेति तस्मात् कर्णः कृतो नेति च केचिचुः । नाशङ्कनीयं न चले किमित्थं यतो विचित्रा फलवासनात्र ॥३७॥ वा० भा० – इह कर्णेन यत् फलमानोयते तदेव समीचीनम् | यन्मन्दकर्मणि कर्णो न कृतस्तत् स्वल्पान्तरत्वात् । मन्दफलानि हि स्वल्पानि भवन्ति । तदन्तरं च तिस्वल्पमिति केषां- चित् पक्षः । ब्रह्मगुप्तोऽत्र कारणमाह | त्रिज्याभक्त: परिधि: कर्णगुण इत्यादि । मन्दकर्मणि मन्दकर्णतुल्येन व्यासार्थेन यद्वृत्तमुत्पद्यते तत् कक्षामण्डलम् । तेन ग्रहो गच्छति । यो मन्द- परिधिः पाठपठितः स त्रिज्या परिणतः । अतोऽसो कर्णव्यासार्थे परिणाम्यते । ततोऽनुपात: । यदि त्रिज्यावृत्तेऽयं परिधिस्तदा कर्णवृत्ते क इति । अत्र परिधेः कर्णो गुणस्त्रिज्या हरः । एवं स्फुटपरिधिस्तेन दोर्ज्या गुण्या भांश: ३६० भाज्या | ततस्त्रिज्यया गुण्या कर्णेन भाज्या | एवं सति त्रिज्यातुल्ययोः कणंतुल्ययोश्च गुणहरयोस्तुल्यत्वान्नाशे कृते पूर्वफलतुल्यमेव फलमागच्छ- तोति ब्रह्मगुप्तमतम् । अथ यद्येवं परिधेः कर्णेन स्फुटत्वं तर्हि कि शीघ्रकर्मणि न कृतमित्या- शङ्कय चतुर्वेद आह । ब्रह्मगुप्तेनान्येषां प्रतारणपरमिदमुक्तमिति । तदसत् । चले कर्म- णीत्थं कि न कृतमिति नाशङ्कनीयम् । यतः फलवासना विचित्रा | शुक्रस्यान्यथा परिधेः स्फुटत्वं भौमस्यान्यथा तथा कि न बुधादीनामिति नाशङ्कघम् । अतो ब्रह्मोतिरत्र सुन्दरी ।। ३६-३७ । ३९२ इदानीं नतकर्मवासनामाह - प्राक् पश्चात् प्रतिमण्डलस्थखचरं द्रष्टा कुमध्यस्थितः कक्षायां खलु यत्र पश्यति नतं नो तत्र भूपृष्ठगः । मध्याह्ने तु कुमध्यपृष्ठगनरौ तुल्यं यतः पश्यत- स्तेनोक्तं नतकर्म लम्बनविधौ या युक्तिस्त्रापि सा ॥३८॥ वा० भा० – स्पष्टम् ॥ ३८ । १. अत्र ब्रह्मगुप्तः त्रिज्याभक्तः परिधिः कर्णगुणो बाहुकोटिगुणकाराः । असकृन्मान्दे तत्फलमाद्यसमं नात्र कर्णोऽस्मात् || अपि च श्रीपति : ----- त्रिज्यागुणः श्रुतिहृतः परिधिर्यंतो दोः कोट्योर्गुणो मृदुफलानयनेऽसकृत् स्यात् । स्यान्मन्दमाद्यसममेव फलं ततश्च कर्णः कृतो न दुकर्मणि तन्त्रकारैः || सि० शे० १५ अ० ४५ इलो० ।