पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेद्यकाधिकारः ३९,१ भङ्गिद्वयं चेल्लिखितं विमिश्रं वृत्तद्वयेऽप्यत्र यथोक्तदत्तः । नीचोच्चवृत्तप्रतिवृत्तयोगे भवत्यवश्यं युचरस्तदानीम् ||३२| यथा भवेत् तैलिकयन्त्रमध्ये काष्ठभ्रमो गोश्रमतो विलोमः । नीचोच्चवृत्तभ्रमणं तथान्यत्स्याद्गच्छतोऽपि प्रतिमण्डलेन ||३३ | वा० भा० – ग्रहः पूर्वंगत्या प्रतिमण्डलेनैव भ्रमति । यदेतम्नीचोच्चवृत्तं तत् प्र ज्ञैर्गणकैः फलार्थ कल्पितम् । तत्र प्रतिमण्डलगते विलोमं ग्रहो गच्छन्निव प्रतिभाति । कथं तत्र विलोम- गतिः प्रतिभाति । तत्र दृष्टान्तः । यथा तैलिकयन्त्रमध्ये तिलपीडनार्थमूर्ध्वकाष्ठं प्रक्षिप्यते । तस्य यथा गोभ्रमाद्विपरीतो भ्रमः । तत्र गौः किलापसव्यं भ्रमति । तदूध्वंकाष्ठं तथा श्रोम्य- माणमपि स्वाङ्गेन सव्यभ्रममुत्पादयति । एवं नोचोच्चवृत्ते भ्रमणं विपरीतमिव प्रतिभाति । शेषं स्पष्टम् ।। ३०-३३ ॥ इति मिश्रभङ्गिः । वा० वा० – ननु प्रतिमण्डलस्था 'नान्नीचोच्चवृत्ते ग्रहस्थानमन्यथा प्रतिभातीति तो: कि यथार्थमित्यत आह -- मन्दोच्चतोऽग्र इति । नीचोच्चवृत्त इति । प्राज्ञैः कृतस्य कल्पनाद्वयस्य फलार्थत्त्वात्तस्य फलस्य प्रकारद्वयेनाप्यविशेषादुभयमपि तथ्यमित्यर्थः । द्वयोः छेद्यकयोः फलाभेददर्शनार्थमाह - भङ्गीद्वयमिति । द्वयोः छेद्यकयोर- न्यथाभानं दृष्टान्तेन साधयति । यथा भवेदिति ॥ ३०-३३ | इदानीं मन्दशीघ्र कर्मद्वयेन स्फुटत्वे कारणमाह- मध्यगत्या स्वकक्षाख्यवृत्ते व्रजेन्मन्दनीचोच्चवृत्तस्य मध्यं यतः | तद्द्वृतौ शीघ्रनीचोच्चमध्यं तथा शीघ्रनीचोच्चवृत्ते स्फुटः खेचरः ||३४| शीघ्रनीचोच्चवृत्तस्य मध्यस्थितिं ज्ञातुमादौ कृतं कर्म मान्दं ततः । खेटबोधाय शैघ्रथं मिथः संश्रिते मान्दशैन्ये हि तेनासकृत् साधिते ||३५| वा० भा० – नीचोच्चवृत्तर्भाङ्गपर्यालोचनयैवं परिणमतीति स्पष्टार्थम् ॥ ३४-३५ । वा० वा०--मध्यगत्या स्वकक्षाख्यवृत्ते व्रजेदिति । अत्र तद्वृत्तावित्यत्र कक्षा- वृत्त इत्यर्थः । फलासकृत्साधने युक्तिमाह - शीघ्रनीचोच्चवृत्तस्येति । केवलवास्तवशीघ्रफल - संस्कृतमध्यमतुल्यं यदा मन्दोच्चं तदा मन्दफलाभावो दृष्टः । केवलवास्तवमन्द- फलसंस्कृतमध्यमतुल्यं यदा शीघ्रोच्चं तदा शीघ्रफलाभावो दृष्टस्तस्माद्वास्तवस्पष्टग्रहात् साधितं मन्दफलं मध्यमे देयं मन्दस्पष्टः स्यात् । तस्मात् साधितं शीघ्रफलं मन्दस्पष्टे देयं स्पष्टः स्यात् । अतोऽसकृत् साधनं कृतम् । अन्यत्स्पष्टम् ॥ ३४-३५ । १. प्रतिमण्डलयानादिति क ख ५० |