पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० सिद्धान्तशिरोमणी गोलाध्यायें इदानीं तां भङ्गिमाह - कक्षास्थमध्यग्रहचिह्नतोऽथ वृत्तं लिखेदन्त्य फलज्यया तत् । नीचोच्चसंज्ञं रचयेच्च रेखां कुमध्यतो मध्यखगोपरिस्थाम् ॥ २४ ॥ कुमध्यतो दूरतरे प्रदेशे रेखायुते तुङ्ग मिह प्रकल्प्यम् । नीच तथासनतरेऽथ तिर्थङ्नीचोच्चमध्ये रचयेच्च रेखाम् ।। २५ । नीचोच्चवृत्ते भगणाङ्कितेऽस्मिन् मान्दे विलोमं निजकेन्द्र गत्या । शैघ्येऽनुलोमं भ्रमति स्वतुङ्गादारभ्य मध्ययुचरो हि यस्मात् ।। २६ । अतो यथोक्तं मृदुशीघ्र केन्द्र देयं निजोच्चायुचरस्तदग्रे । दोर्ज्योच्चरेखावधि खेटतः स्यात्तिर्यक्स्थ रेखावधि कोटिजीवा ॥ २७ ॥ वा भा० - प्राग्वत् कक्षावृत्तं चक्रांशाङ्कितं कृत्वा तत्र मध्यग्रहं च दत्त्वा ग्रहचिह्नड- न्त्यफलज्याप्रमाणेनान्यद्वृत्तं लिखेत् । तन्नीचोच्चवृत्तसंज्ञम् । अथ भूमध्याद्ग्रहोपरिगता रेखा किंचिद्दर्घा कार्या । सात्रोच्चरेखा | नीचोच्चवृत्ते भूमेर्दुरतरे प्रदेशे रेखायुत उच्चं प्रकल्प्यम् । अ. सन्ने रेखायुते नोचम् | नोचोच्चचिह्नाभ्यां मत्स्यमुत्पाद्य तिर्यग्रेखा मध्ये कार्या। तस्मिन् वृत्ते केन्द्रगत्योच्वस्थानादारभ्य मध्यग्रहो भ्रमति । मान्दे विलोमं शैक्रयेऽनुलोमम् । अतः कारणान्म- न्दकेन्द्रमुच्चाद्विलोमं देयम् । शीघ्र केन्द्रमनुलोमम् । तदने ग्रहः । अत्रापि ग्रहोच्चरेखान्तरे दोर्ज्या | ग्रहतियंग्रेखयोरन्तरे कोटिज्या ॥ २४-२७ । इदानीं कर्णानयनं फलं चाह - ये केन्द्र दोः कोटिफले कृते ते नीचोच्चत्ते भुजकोटिजीवे । त्रिज्योर्ध्वतः कोटिफलं मृगादौ कर्यादिकेन्द्रे अतस्तदै क्यान्तरमत्र कोटिर्दोर्दोः फलं कर्णोज्थ मध्यग्रहकर्णमध्ये फलं धनर्णं तदधो यतः स्यात् ॥ २८॥ भूग्रहमध्यसूत्रम् | तदिहोक्तवच्च ।। २९ । वा० भा० - - पूर्वाधं सुगमम् । कक्षावृत्ते व्यासाधं किल त्रिज्या | त्रिज्याग्रादुपरि कोटि- फलं यतो मृगादौ केन्द्र भवति कर्यादौ तु तदधः । अस्तदेक्यान्तरं स्पष्टा कोटि: । तस्मिन् त्र्यस्त्रे भुजफलमेव बाहु: । भूग्रहान्तरं कर्ण: । दोः कोटिव गैंक्यपदमिति प्रसिद्धम् । अत्रापि प्राग्वत् कक्षावृत्त कर्णसूत्रसके स्फुटो ग्रहः । स्फुटमध्ययोरन्तरं फलमित्यादि ॥ २८-२९ । इति नीचोच्चवृत्तभङ्गिः । अथ मिश्रभङ्गिमाह - मन्दोच्चतोऽये प्रतिमण्डले प्राग्ग्रहोऽनुलोमं निजकेन्द्र गत्या । शीघ्राद्विलोमं भ्रमतीव भाति विलम्बितः पृष्ठत वयस्मात् ||३१| नीचोच्चवृत्ते पुनरन्यथा ते तस्यानुलोमप्र तिलोमयाने । १ एका गतिः सा प्रतिभानमन्यत् प्राज्ञैः फलार्थं प्रविकल्पितं तत् ।।३१। १. परिकल्पितं तत् । इति पाठान्तरम् ।