पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेद्यकाधिकारः ३८९ . वा० भा० – तयोः कक्षावृत्तप्रतिवृत्तयोमंध्यस्ये ये तिर्यग्रेखे तयोरन्तरं सर्वत्रान्त्यफलज्या- तुल्यमेव स्यात् । अतोऽन्त्य फलज्याग्रादुपरि प्रतिवृत्तस्य कोटिज्या मृगादौ केन्द्रे भवति । कर्क्यादौ । तदघः । अतः कोटिज्यान्त्य कलज्योर्योगवियोगौ कृतौ । तथा कृते सति कक्षामध्यगतिर्यग्रेखावधेः कोटिर्भवति । कोटितलकुमध्ययोरन्तरं दोर्ज्या स भुजः । तत्कोटिवर्गैक्यपदं कर्ण इत्युपपन्नम् । कर्णो नाम ग्रहकुमध्ययोरन्तरसूत्रम् । तत् सूत्रं कक्षामण्डले यत्र लग्नं तत्र स्फुटो ग्रहः । स्फुट- मध्ययोरन्तरं फलम् | तच्च मध्यग्रहात् स्फुटे ग्रहेऽधिके धनमून ऋणं क्रियत इत्युपपन्नम् । एवं मन्वफलेन मन्दस्फुट: शीघ्रफलेन स्फुट: स्यात् ।। १५-१७ । इदानीं मन्दस्फुटं मध्यमं प्रकल्प्य शोघ्रफलं यत् साध्यते तदुपपत्तिमाह -- मध्यो हि मन्दप्रतिमण्डले स्वे मन्दस्फुटो द्राक्प्रतिमण्डले च । भ्रमत्यतश्चञ्चलकर्मणीह मन्दस्फुटो मध्यखगः प्रकल्प्यः ॥१८॥ वा० भा० – मन्दकर्मपूर्वकं शोघ्रकर्मेत्येतत् स्पष्टार्थम् ।। १८ । इदानीमुच्चोपपत्तिमाह - भ्रमन् ग्रहः स्वे प्रतिमण्डले नृभिः स यत्र कक्षावलये विलोक्यते । स्फुटो हि तत्रास्य फलोपपत्तये प्रकल्पितं तुङ्गमिहाद्यसूरिभिः ।।१९। यः स्यात् प्रदेशः प्रतिमण्डलस्य दूरे भुवस्तस्य कृतोच्चसंज्ञा | सोऽपि प्रदेशश्चलतीति तस्मात् प्रकल्पिता तुङ्गगतिर्गतिज्ञैः ||२०| उच्चाद्भषट्कान्तरितं च नीचं मध्यः स्वनीचोच्चसमो यदा स्यात् । कक्षास्थमध्योपरि कर्णसूत्रपाताद स्फुटो मध्यसमस्तदानीम् ॥ २१ । वा० भा०- - उच्चदेशात् क्रमेण चलितस्य फलप्रवृत्तिदृश्यते । अतस्तुङ्गं कल्पितम् । शेषं स्पष्टम् । मध्यगतिवासनायां च सविस्तरमुक्तम् ॥ १९-२१ । इदानीमन्यदाह - उच्चस्थितो व्योमचरः सुदूरे नीचस्थितः स्यान्निकटे धरित्र्याः । अतोऽणुबिम्ब: पृथुलथ भाति भानोस्तथासन्नसुदूरवर्ती ॥ २२ ॥ वा० भा० - स्पष्टम् ।। २२ । इदानीमन्यद्वक्तुं प्रकारान्तरमाह- उक्ता मथैषा प्रतिवृत्तभङ्गया युक्तिः पृथक् श्रोतुरसंभ्रमार्थम् । स्पष्टीकृतेस्तां पुनरन्यथाहं नीचोच्चवृत्तस्य च वच्मि भङ्गया' ||२३| वा० भा० - इह किल स्पष्टीकरणयुक्ति: प्रतिवृत्तभङ्गया मयोक्ता | अथ तामेव नीचो- च्ववृत्तभङ्गघा वच्मि ॥ २३ ॥ १. नीचोच्चवृत्तस्य च वच्मि भूय इति पाठान्तरम् ।