पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये वा० वा०—छेद्यकार्थं केषां सुगम: केषां कठिन इत्याह - - ये दर्भगर्भाग्रधिय इति ॥ ४४ ॥ ३९४ श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद् भट्टाचार्य सुतादिवाकर इति ख्याताञ्जनि प्राप्तवान् । यः कृष्णस्तनयेन तस्य रचिते सवासनावात्तिके सत्सिद्धान्तशिरोमणेरियमगात्स्पष्टाश्रिता वासना ॥ १ ॥ अथ गोलबन्धाधिकारः इदानीं गोलबन्धाधिकारमाह- सुसरलवंशशलाकावलयैः श्लक्ष्णैः सचक्रभागाङ्कः । रचयेद्गोलं गोले शिल्पे चानल्पनैपुणो गणकः ॥ १। वा० भा० – स्पष्टम् ॥ १ ॥ वा० वा० — अथ गोलबन्धो व्याख्यायते । तत्र गोलरचनामाह सुसरलवंशश- लाकावलयैरिति वृत्तेन । अत्र वंशशब्दो 'धात्वाद्युपलक्षकः ॥ १ ॥ अथ गोलबन्धमाह - कुत्वादौ ध्रुवयष्टिमिष्टतरुजामृज्वीं सुवृत्तां ततो यष्टीमध्यगतां विधाय शिथिलां पृथ्वीमपृथ्वीं बहिः । बघ्नीयाच्छशिसौम्यशुक्रतपनारेज्यार्किभानां दृढान् गोलांस्तत्परितः श्लथौ च नलिकासंस्थौ खदृग्गोलकौ ॥२॥ वा० भा० – आदो सारदारुमयों यष्टि कृत्वा तदर्धंस्थाने तत्र प्रोतां पृथ्वों सूक्ष्मां शिथिलां च विधाय तस्या बहिश्चन्द्रादीनां गोलान् यष्ट्या सह दृढान् बध्नीयात् । तेषां बहिर्नलिकासंस्थौ खदृग्गोलाविति साधारण्येनोक्तम् ॥ २ ॥ वा० वा० - कृत्वादी ध्रुवयष्टिमिति वृत्ते संक्षिप्य सर्वोऽपि गोलबन्ध उक्तः । इष्टतरुजामित्यत्र तरुशब्दोप्युपलक्षणार्थः ॥ २ । इदानीं सविशेषमाह पूर्वापरं विरचयेत् सममण्डलाख्यं याम्योत्तरं च विदिशोर्वलयद्वयं च । ऊर्ध्वाध एवमिह वृत्तचतुष्कमेतदावेष्टय तिर्यगपरं क्षितिजं तदर्धे ॥ ३॥ वा० भा० - एक पूर्वापरमन्यद्याम्योत्तरं तथा कोणवृत्तद्वयमेवं वृत्तचतुष्टयमूर्ध्वाधरुप- मावेष्ट्य तदर्धे वृत्तं क्षितिजाख्यं निवेशळेत् । अत्र याम्योत्तरवृत्त उत्तरक्षितिजादुपरि पलंशान्तर एकं ध्रुवचिह्नं कार्यम् । दक्षिण क्षितिजादधोऽन्यत् ॥ ३ ॥ १. धावाद्युयटलकः, इ० खपु० ।