पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८७ एकस्य ग्रहबिम्बस्य मध्यगतिस्पष्टगतिभेदोपलम्भान्यथानुपपत्त्या कारणमि- दमाद्यैः कल्पितम् । तस्मात्कारणाद् भूस्थो द्रष्टा नहि भवलये मध्यतुल्यं प्रपश्येत् । यस्मादिदं तस्मात्तदोः फलं मध्यखेटे क्रियते भूमिकेन्द्रगतभवलयकेन्द्रात्कुत्र ग्रह भ्रमण - वृत्तकेन्द्रं, कथं च भुजज्या कोटिज्या ज्ञानं, का चान्त्यफलज्या, कथं च कोटिकर्ण- साधनं, कुत्र मध्यग्रहस्थानं कुत्रोच्चनीचस्थानं कि नाम केन्द्र, के च केन्द्रभुजकोटी, कुत्र भुजफलोपलम्भः, कथं च ग्रहस्य वक्रमार्गत्वोपलम्भ इत्यादिप्रतिपादनार्थं छेदक- द्वयमाद्यैः कल्पितम् । एका प्रतिमण्डलभङ्गिरन्या नीचोच्चवृत्तस्य । छेद्यकाधिकारः भूमेर्मध्ये खलु भवलस्यापि मध्यं यतः स्याद् । यस्मिन् वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्य इति बोधार्थं छेद्यकं विलिख्य दर्शयेदित्याह- पूर्वापरायतायामिति ॥ ७-८ | इदानों कालविलम्बेन प्रतारणपरं वाक्यमिति ज्ञात्वा शिष्यैः पुनः पृष्टः सन्नाह - दिव्यं ज्ञानमतीन्द्रियं यदृषिभिर्ब्राह्मं वसिष्ठादिभिः पारंपर्यबशाद्रहस्यमवनीं नीतं प्रकाश्यं ततः । नैतद्वेषिकृतघ्नदुर्जनदुराचाराचिरावासिनां - १ स्यादायुः सुकृतक्षयो मुनिकृतां सीमामिमामुज्झतः ॥ ९ ॥ वा० भा० – स्पष्टार्थम् ।। ९ । वा० वा० - एतत् सुशिष्याय देयं नान्यस्मै इत्याह - दिव्यं ज्ञानमिति ॥ ९ ॥ इदानीं विलिख्य छेद्यकमाह - त्रिभज्यकासंमितकर्कटेन कक्षाख्यवृत्तं प्रथमं विलिख्य । तन्मध्यतो मध्यमखेटभुक्तितिथ्यंशमानेन महीं सुवृत्ताम् ।। १० । कक्षाख्यवृत्ते भगणाङ्कितेऽत्र दत्वोच्चखेटौ क्रियतोऽय रेखा । कुमध्यतुङ्गोपरिगा विधेया तिर्यक् ततोऽन्या सुधिया कुमध्ये ॥ ११ । उच्चोन्मुखीमन्त्यफलज्यकां च दत्त्वा कुमध्याद्विलिखेत् तदग्रे । त्रिभज्ययैव प्रतिमण्डलाख्यं सैवोच्चरेखा त्वपरात्र तिर्यक् ।। १२ । १. अत्र श्रीपतिः- भक्ताय शिष्याय चिरोषिताय गुणोपपन्नाय च देयमेतत् । भ्रात्रे च मित्राय सूनवे च सुदुर्लभं छेद्यकगोलतन्त्रम् || I सि० शे० २० अ० २७ श्लो० । प्रतिकञ्चुककृत्कृतघ्नविद्विड्वपिताधामिक मूर्खदुर्जनेभ्यः । इह तन्त्र रहस्यमप्रमेयं ददतः स्यात् सुकृतायुषोः प्रणाशः ॥ सि० शे० २० अ० २६ श्लो० ।