पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६ सिद्धान्तशिरोमणी गोलाध्याये तुल्येन कोटिज्या त्रिज्यायोगो भुजोक्रमज्योनद्विगुणत्रिज्या तुल्यो गुणनीयो जातो भुजक्रमज्यावर्गः । अत्रोत्क्रमज्यागुणितोत्क्रमज्यारूपउत्क्रमज्यावर्गो योज्य: कर्णवर्गो भवति । तत्र गुणगुणितयोर्योज्ययोजकयोर्योगे केवलयोर्योज्ययोजकयोर्योगे गुणगुणिते फलाविशेषात् कोटिज्यात्रिज्यायोगे उत्क्रमज्यायोजिता जाता द्विगुणत्रिज्या इयमुत्क्र- मज्यागुण ततोऽस्या: मूलदलं ग्राह्यमिति चतुर्भिर्भागे हृते गुणहरौ गुणेनापवर्त्य त्रिज्योत्क्रमज्या निहतेरिति सम्यगुक्तम् । अत्र नवत्यंशमध्ये गुणाश्चतुर्विंशतिमिता रूपादय इति शास्त्रान्तरप्रसिद्धेमर्वी ज्या शिञ्जिनी गुण इत्यनेन गुणशब्दस्य जीवापरत्वादाद्यैश्चतुर्विंशतिमिता जीवा: कल्पितास्ताः पूर्वोक्तप्रकारेण सिध्यन्तीत्याह एवमिति | प्रकारान्तरेणाह - त्रिज्योत्थ वृत्त इति ॥२-६ । - इदानीं स्पष्टीकरणे फलस्योत्पत्तिमाह - भूमेर्मध्ये खलु भवलयस्यापि मध्यं यतः स्याद्- यस्मिन् वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्ये | भूस्थो द्रष्टा नहि भवलये मध्यतुल्यं प्रपश्येत् तस्मात् तज्ज्ञैः क्रियत इह तद्दोः फलं मध्यखेटे ॥ ७ ॥ वा० भा० – यदेतत् भपञ्जरेऽश्विन्यादीनां भानां वलयं तद्भूमेः समन्तात् सर्वत्र तुल्येs- म्तरे वर्तते । यतस्तस्य मध्यं कुमध्ये। अथ यस्मिन् वृत्ते ग्रहो भ्रमति तस्य मध्यं कुमध्ये न । तभूमेः समन्तात् समानान्तरं नेत्यर्थः । अतो भूस्यो द्रष्टा भवलये मध्यमस्थाने ग्रहं न पश्य- ति । किंत्वन्यत्र पश्यति । तयोभंवलये यदन्तरं तद्ग्रहस्य फलमित्यर्थादुक्तं भवति । अत उक्तं तस्मात् तज्ज्ञः क्रियत इह तद्दोः फलं मध्यखेट इति ॥ ७ ॥ एवमेकेनैव लोकेन संक्षेपाच्छेद्यक सर्वस्वमुक्त्वेदानीं किंचित् सविस्तरं छात्रान् प्रत्याह पूर्वापरायतायां तद्भित्तावुत्तरपार्श्वके । दर्शयेच्छिष्यबोधार्थं लिखित्वा छेद्यकं सुधीः ।। ८ । वा० भा० - नाद्यापीदं सम्यगस्माभिर्ज्ञायत इति शिष्यैरुक्त आचार्य आह । पूर्वापर रायता- यामित्यादि । स्पष्टार्थम् ॥ ८ ॥ वा० वा०— संसिद्धात् धुगुणादिति प्रश्नस्योत्तरमाह - भूमेमध्य इति । यस्माद् भूस्थो द्रष्टा नक्षत्रवलये चक्रयन्त्रादिना मध्यतुल्यं ग्रहं न पश्यति तेनाहर्गणागत- ग्रहस्यास्पष्टता। गगने यादृशं पश्यति स स्पष्टग्रह इत्युच्यते । मध्यमस्पष्टयोरन्तरं फलं तस्मात् स्पष्टग्रहज्ञानार्थं तद्दोः फलं मध्यखेटे क्रियत इत्यर्थ: । मध्यात् स्पष्टग्रहवि- सशोपलम्भः प्रत्यक्षसिद्धस्तथाप्यत्र केनचित् कारणेन भाव्यमिति तदाह - यस्माद् भूमेर्मध्ये भवलयस्यापि मध्यं यतः स्याद्यस्मिन् वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्ये स्यादिति कारणं कल्पितम् । १. दरूपति, इ० खपु० ।