पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेद्यकाधिकारः ३८५ वा० वा० – अथ स्पष्टगतिवासनोच्यते । स्वकक्षागोलपरिधौ ग्रहो भ्रमति भूगर्भे स्पष्टकक्षाकेन्द्रम् । भूगतेन कर्णाग्रे ग्रहो द्रष्टव्यः । भुजकोटिभ्यां कर्णः सिध्यति । भूगतस्य भुजकोट्यो जीवा रूपा एव भवन्तीति गोलकथनार्थं ज्योत्पत्तिकथनं प्रति- जानीते । भुजकोटिकर्णानाह–इष्टेति । कोटिभुजोत्क्रमज्याज्ञानमाह-दोरिति । त्रिज्या- व्यासार्द्धन वृत्तं कृत्वा चक्रकलाभिरङ्ङ्क्यम् । वृत्ते पूर्वापररेखे कार्ये । येषां भुजभा- गानां' जीवाज्ञानं कर्तुमिष्टं ते भुजांशाः पूर्वापररेखावृत्तपरिधिसंपातादुभयत्र वृत्तपरिधौ गणयित्वा देयास्तत्र चिह्न कार्ये । तच्चियोर्यत्तिर्यक्सूत्रं सा तेषां भुजभागानां सम्पूर्णजीवा भवति । तस्या अर्द्ध ज्यार्द्धचिह्नमिति पूर्वापररेखातो जीवाग्रवृत्तपरिधि- सम्पातपर्यन्तमर्द्धज्या तेषामंशा नामिति सर्वत्र वेद्यम् । अर्द्धज्याग्रे खेचरो मध्यसूत्रात्तिर्यक् संस्थो जायते येन तेन । अर्द्धज्याभिः कर्मं सर्वं ग्रहाणामर्द्धज्यैव ज्याभिधानात्र वेद्या : २ । इति स्पष्टाधिकारे उक्तम् । इयं दोर्ज्या भुजः । जीवाग्रवृत्तसम्पाताद्याभ्योत्तर- रेखापर्यन्तं योर्ध्वाधररेखा सा कोटयंशानामर्द्धज्या कोटि: । वृत्तमध्याज्जीवाग्रवृत्त- परिधिसम्पातयर्यन्तं तिर्यक् कर्ण: । पूर्वापररेखायां ज्याचापमध्ये 3 बाणरूपा भुजो क्रमज्या । याम्योत्तररेखायां या बाणरूपा ज्या सा कोटयुत्क्रमज्येति । ज्याचापमध्य इति । त्रिभमौविकाया इति । पूर्वापरेखावृत्तसम्पाताद्याम्योत्तररेखावृत्तसम्पातपर्यंन्तं सूत्रवृत्तान्तर्गतचतुर- स्रभुजः पञ्चचत्वारिंशदंशानां सम्पूर्णजीवा भवितुमर्हति द्विगुणभुजांशोपरि दीयमान- त्वात् । इयं पञ्चचत्वारिंशदंशसम्पूर्णजीवा कर्णः । अत्र त्रिज्यातुल्ये भुजकोटी दृश्येते । तत्कृत्योर्योगपदं कर्णं इति त्रिज्यावर्गो द्विगुणो जातः कर्णवर्गः । अत्राद्धंज्यैवापेक्षितेति द्विगुणत्रिज्यावर्गमूलदलं कार्यं तत्र त्रिभज्यावर्गार्द्धमूलमेव गृहीतम्। ‘वर्गेण वर्गं गुणयेद् भजेच्चेति' द्वयोस्तुल्यत्वात् । वृत्तान्तः समचतुरस्रभु- जात्पञ्चचत्वारिंशदंशजीवा ज्ञाता । वृत्तान्तः समषडस्रभुजस्त्रिज्यातुल्य एव भवति । द्विगुणखगुणांशोपरि दीयमानत्वादेकराशिसम्पूर्णजीवा तुल्योऽयमिति 'त्रिभज्यकाद्धं खगुणांशजीवेति' । एकराशिक्रमज्योत्क्रमज्ये देये भुजकोटिवदत्र यः कर्णः स पञ्चदशांशानां सम्पूर्णजीवा भवति द्विगुणतदंशोपरि दीयमानत्वात् । अत्र क्रमज्या भुज उत्क्रमज्या कोटिस्तदशकसम्पूर्णजीवा कर्णः । अत उक्तं ‘क्रमोत्क्रमज्याकृतियोगमूलादिति' । अत्र दोर्ज्यावर्गो नाम त्रिज्या कोटिज्योर्वर्गान्तरं तद्योगान्तरघातसममिति कोटिज्या त्रिज्यान्तरेण भुजो क्रमज्या १. भुजगानामिति खपु० । २. सि० शि० गणि० स्प० अ० इलो० सं० २ | ३. वाषभयो इ० खपु० । सि० - ४९