सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ छेद्यकाधिकारः इवानीं गोलं विवक्षुरादौ ज्योत्पत्तिकथने कारणमाह - पटो यथा तन्तुभिरूर्ध्वतिर्थग्रूपैर्निबद्धोऽत्र दोः कोटिजीवाभिरमं प्रवक्तुं ज्योत्पत्तिमेव प्रथमं प्रवक्ष्ये ।। १ । तथैव गोलः । वा० भा०— स्पष्टम् ।। १ । इदानीं जोवाक्षेत्रसंस्थानं तावदाह - - इष्टा त्रिज्या सा श्रुतिर्दोर्भुजज्या कोटिज्या तद्वर्गविश्लेषमूलम् । दोःकोट्यंशानां क्रमज्ये पृथक् ते त्रिज्याशुद्धे कोटिदोरुत्क्रमज्ये ॥ २ ॥ ज्याचापमध्ये खलु बाणरूपा स्यादुत्क्रमज्या त्रिभमौर्विकायाः । वर्गार्धमूलं शरवेदभागजीवा ततः कोटिगुणोऽपि तावान् ॥ ३ ॥ त्रिभज्यकाधं खगुणांशजीवा तत्कोटिजीवा खरसांशकानाम् । क्रमोत्क्रमज्याकृतियोगमृलादलं तदर्भांशकशिञ्जिनी स्यात् ॥ ४ ॥ त्रिज्योत्क्रमज्यानिहतेर्दलस्य मूलं तदर्धांशकशिञ्जिनी वा । तस्याः पुनस्तद्दलभागकानां कोटेथ कोठ्यंशदलस्य चैवम् ।। ५ । एवं त्रिषट्सूर्य जिनादिसंख्या अभीष्टजीवाः सुधिया विधेयाः । त्रिज्योत्थवृत्ते भगणाङ्किते वा ग्राह्या अभीष्टा विगणय्य जीवाः ॥ ६ ॥ वा० भा० – अत्र त्रिज्योत्थवृत्ते भगणाङ्किते वेत्येतदन्त्यवृत्तस्योत्तरार्धमादो व्याख्यायते । ज्योत्पत्तावभीष्टा त्रिज्या कल्प्यते समायां भूमौ त्रिज्यामिता गुलेन सूत्रेण वृत्तं विलिख्य दिग- ङ्कितं चक्रांशकैश्चाङ्कितं कृत्वा तत्रैकस्मिन्ने कस्मिन् वृत्तचतुर्थांशे नवतिर्नवतिर्भागा भवन्ति । ततो यावन्ति ज्यार्थानि कार्याणि तावद्भिविभागैरेकैकं वृत्तचतुर्थांशं विभज्य तत्र चिह्नानि कार्याणि । तद्यथा | यत्र चतुविशतिर्जीवा: साध्यास्तत्र चतुर्विंशतिर्भवन्ति । एवं द्विती- यचतुर्थांशेऽपि । ततो दिचिह्नादुभयतश्चिह्नद्वयोपरि गतं सूत्रं ज्यारूपं भवति । एवं चतु- "विशतिर्ज्या भवन्ति । तासामर्थानि ज्यार्थानि । सत्प्रमाणान्यङ्गुलमित्वा ग्राह्याणि । अथावितो व्याख्यायते । येष्टा त्रिज्या स कर्ण: कल्प्यः | या भुजज्या स भुजस्तयोः कर्णभुजयोवंर्गान्तरपदं कोटि: । कोटिज्येत्यर्थः । तत्र ये भुजकोटिज्ये ते भुजकोटचंशानां क्रमज्ये ज्ञातव्ये । भुजज्या त्रिज्यातो यावद्विशोध्यते तावत् कोटघंशानामुत्क्रमज्यावशि- ष्यते । एवं कोटिज्योना त्रिज्या भुजांशानामुत्क्रमज्या स्यात् ।