पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ सिद्धान्तशिरोमणी गोलाध्याये तत्र तावत् पूर्वापरमाह - यल्लङ्कोज्जयिनीपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत् सूत्र मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः । आदौ प्रादयोऽपरत्रविषये पश्चाद्धि रेखोदयात् स्यात् तस्मात् क्रियते तदन्तरभवं खेटेष्वृणं स्वं फलम् ।। २४ । वा० भा० - लङ्काया मेरुपर्यन्तं नीयमाना रेखोज्जयिनीकुरुक्षेत्राविदेशान् स्पृशन्ती याति सा मध्यरेखेत्युच्यते । रेखायां यदादयस्तत्कालात् पूर्वमेव पूर्वदेशे भवति । रेखोदय- कालादनन्तरं पश्चिमदेशेऽदयः । तवन्तरकालस्तदन्तरयोजनं: स्पष्टभूवेष्टनादनुपातेन ज्ञायते । यदि स्फुटपरिधियोजनैः षष्टि-२० घटिका लभ्यन्ते तदा रेखास्वपुरयोरन्तरयोजनैः किमितीति त्रैराशिकेन देशान्तरघटिका लभ्यन्ते । मध्यगत्याथ चानीता नाडघस्ताभिरनुपातः । यदि घटीषष्ट्या ग्रहस्य गतिकला लभ्यन्ते तदा देशान्तरघटीभिः किमिति । अथवा योजनेरेवा- नुपात: । स्फुटपरिधियोजनैर्गतिः प्राप्यते तदा देशान्तरयोजनंः किमिति | फलं कलाः प्रागुणं यतस्तत्र दाबुदयः । पश्चाद्धनम् । यतस्तत्र रेखोदयादनन्तरमदय इत्युपपन्नम् ॥ २४ ॥ वा० वा० – चरज्ञानार्थं मध्यरेखास्वरूपमाह – पल्लङ्कोञ्जयिनीति ॥ २४ ॥ इदानों भूगोले स्फुटपरिधिप्रदेशं स्फुटतानुपातं चाह- स्वदेशमेर्वन्तरयोजनैर्यल्लम्बांश जैरु गिरेः समन्तात् । वृत्तं स्फुटो भूपरिधिर्यतः स्यात् त्रिज्याहृतो लम्बगुणः कृतोऽस्मात् || २५ | वा० भा० – स्वपुरस्य मेरुगर्भस्य चान्तरे यावन्ति योजनानि तावन्ति लम्बांशजानि । यतो निरक्षदेशस्त्रपुरान्तरयोजनान्यक्षांशजानि । भागेभ्यो योजनानि च व्यस्तमित्युपपद्यत इत्यर्थः । तेलम्बांशजेर्योजन में रुगिरेः समन्ताद्यवृत्तमुत्पद्यते स स्फुटो भूपरिधिः । यो मध्यपरिधिः पठितः स निरक्षदेशोपरि। अयं तु स्वपुरोपरि। अतः किचिन्न्यूनो भवति । अथ तदानयनम् । मध्यपरिधेरभीष्टं त्रिज्यातुल्यं व्यासार्थ प्रकल्प्य तस्मिन् व्यासार्थे स्वपुरे यावती लम्बज्या तावत् स्फुटपरिधेसाधं भवितुमर्हति । अतस्तेन त्रैराशिकम् | यदि त्रिज्याव्या साधे मध्यमः परिधिर्लभ्यते तदा लम्बज्यामिते क इति । फलं स्फुटपरिधिरित्युपपन्नम् ॥ २५ ॥ इति गोलभाष्ये मध्यगतिवासना । अत्र ग्रन्थसंख्या १७५ । वा० वा० – स्पष्टभूपरिधिस्वरूपं देशान्तरज्ञानार्थमाह - स्वदेशमेर्वन्तरयोजनै- रिति ॥ २५ ॥ श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्, भट्टाचार्यसुताद्दिवाकर इति ख्याताजन प्राप्तवान् । यः कृष्णस्तनयेन तस्य रचिते सद्वासनावा सत्सिद्धान्तशिरोमणेरियमगाद्युक्तिस्तु मध्याश्रिता ॥ 1