पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगति वासना ३८१ काले भविनान्तादूधवं जाताः । अतोऽसूनां कलानां च यदन्तरं तेनादयोऽन्तरितः । अत- स्तदुदयान्तराख्यं कर्मोच्यते । तैरन्तरासुभिर्ग्रहर्गात संगुण्याकंसावनाहोरात्रासुभि - २१६५९ विभज्य लब्धकला ग्रहे ऋणं कार्या: । यदि कलाभ्योऽसवोऽल्पका: स्युः | अन्यथा धनम् | यदि तु स्वदेशोदयैर्मध्यमार्कंभुक्तानसूनानीयेदं कर्म कृतं तदौदयिकानां ग्रहाणां चरकर्माणि कृतं स्यात् । यदि तु स्फुटाकंभुक्तानसून् स्वोदयासुभिरानोयेदं कर्म कृतं तदोद- यान्तरभुजान्तरचरकर्माणि त्रीण्यपि कृतानि स्यु । तहिं कथमिदमुदयान्त राख्यं कर्माद्येनं कृतं तदाह । यतोऽन्तरं तञ्चलमल्पकं च वर्षधरणान्तेषु चतुष्वंप्यन्तराभावः । तन्मध्ये- व्वन्तरस्य वृद्धिक्षयो । १९१-२२ । इदानीं देशान्तरस्वरूपमाह - येऽनेन लङ्कोदयकालिकास्ते देशान्तरेण स्वपुरोदये स्युः । देशान्तरं प्रागपरं तथान्यद्याम्योत्तरं तच्चरसंज्ञ मुक्तम् || २३ | वा० भा० - य उदयान्तर कर्मणा लङ्कायामौदयिका ग्रहा जातास्ते देशान्तर कर्मणा स्वपुरोदयिकाः स्युः । तच्च देशान्तरं द्विविधम् । एकं पूर्वापरमन्यद्याम्योत्तरम् । तच्चरसंज्ञ- मुक्तम् ॥ २३ । वा० वा० – षष्टीनाक्षत्रघटीनां यावन्तोऽसवस्तावन्त एव चक्रकलाङ्का इति मध्यमभुक्तिकलातुल्या एवासवो मध्यममानेन जाताः । मध्यमभुक्तिकलातुल्यासुयुता नाक्षत्रषष्टिघटिका : सूर्यस्य मध्यमं सावनमिति प्रसिद्धम् । अनेन मध्यमसावने- नाहर्गंणो जातः स्फुटसावनस्य चलत्वात् । वर्षमध्ये यावन्ति स्पष्टसावनानि तावन्त्येव- मध्यमसावनानीति कल्पादिगतवर्षगणजनिताहर्गणखण्डेन किञ्चित्स्पष्टमध्यमसावना- न्तरम् । वर्तमानसौरवर्षाभ्यन्तरे तयोरन्तरं साध्यम् | राशिकलाभ्यो सनामतुल्य- त्वात् । निरक्षोदयवशेन मध्याकंकलातुल्यासुभ्योऽर्कासूनामन्तरमुदयान्तरमित्यन्वर्थं नाम । इदमहर्गणे संस्कार्यं मध्यमादयेऽहर्गणः स्यात् । अहर्गणा- द्रविस्तस्मादयान्तरं तदहर्गणे संस्कार्य रविः साध्य इति केवलाहगणजनितरवेरु- दयान्तरमामीय तद्रवौ संस्कृतं लङ्कायां मध्यादयकालिको रविरेव लाघवा- त्कृतस्तद्युक्तम् । अत एवाह - अहर्गणो मध्यमसावनेनेति । लङ्कायां लङ्कोदयकालिकानां स्वदेशार्कोयकालीनकरणार्थे चरदेशान्तरसंस्कारः क्रियत इत्याह येनेनेति। रेखादयस्वदेशा कोंदययोरन्तरं पूर्वापरदेशान्तराख्यम् । लङ्का- दयरेखादययोरन्तर याम्योत्तर पूर्वापरदेशान्तरवन्न सर्वदा सममिति चञ्चलत्वा- च्चरसंज्ञम् ।। १९ - २३ । १. लङ्काया इ० ख पु० । २. वात्कृतद्युक्तमिति ख पु० ।