पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० सिद्धान्तशिरोमणौ गोलाध्यायें चयः सावयवास्ता अधिमासशेषतिययः । यतः सौरचान्द्रान्तरमधिमासाः । अहर्मणानयने गताब्वा रविगुणास्ते सौरा मासा जाता: । अतस्तेषु चैत्रादिचान्द्रतुल्या: सौरा एव मासा योजितास्ते संक्रान्त्यवधयो जातास्तेषु त्रिंशद्गुणेषु गततिथितुल्याः सौरा एव दिवसा योजिताः । अतः सौर चान्द्रान्तरेणाधिका जातास्तदन्तरमधिमासशेषदिनानि भव- न्ति । सौरचान्द्रान्तरत्वात् । अतोऽधिमा सशेषदिनान्येभ्यः शोध्यानि । अथ चाधिमा- सानयनेऽनुपातलब्धैरधिमार्सदिनी कृतस्तच्छेष दिनेश्च युक्ताः सौराहाश्चान्द्राहा भवितुमर्हन्ति । एवमत्राधिमासशेषदिनानि क्षेप्याणि । तत्र शोध्यानि | अतः कारणादधिमासशेषं त्य. कम् । अथावमशेषत्यागकारणमुच्यते । तिथ्यन्तानन्तरं यावतीभिघंटीभिः सूर्योदयस्ता अवमशेषघटिकाः । यतश्चान्द्रसावनान्तरमवमानि । यद्यवमशेषं न त्यज्यते लब्धावमे- रवमशेषघटिकाभिश्च तिथय ऊनीक्रियन्ते तदा तिथ्यन्ते सावनोऽहगंणो भवति । अथ च सूर्योदयावधिः साध्यः | तिथ्यन्ताहगंणोऽवमशेषघटीभिर्युक्तः सन्नुदयावधिर्भवति । अतोऽवमशेषे त्यक्ते स्वतः सूर्योदयावधिर्भवति ॥ १५-१८ । अथोदयान्तराल्यकर्मोपपत्ति अहर्गणो मध्यमसावनेन कृतञ्चलत्वात् स्फुटसावनस्य । तदुत्थखेटा उदयान्तराख्यकर्मोद्भवेनोनयुताः फलेन ।। १९ । लङ्कोदये स्युर्न कृतास्तथाद्यैर्य तोऽन्तरं तच्चलमल्पकं च । - वा० भा० - योऽयमहगंण आनीत: स मध्यमसावनेनैव । कुतः | स्फुटसावनस्य चलत्वात् । तथाविधेनानुपातेन स्फुटो नायात्यर्थः । युगादेरारभ्य वर्तमान रविवर्षादे: प्राग्यावान् मध्यमसावन- स्तावानेव स्फुटसावन: स्यात् । किंतु रविर्षादरूध्वं यावान् मध्यमसावनस्तावान् न स्फुटः । अतस्तदुत्पखेटा उदयान्तराख्यकर्मोद्भवेन फलेनोनयुताः सन्तो लङ्कोदये स्युर्नान्यथा । लङ्कायां भास्करोदये मध्या इति यवन्यैरुक्तं तवसत् ॥ १९-१९३ । अथोदयान्तरकर्माह- मध्यार्क भुक्ता असवो निरक्षे ये ये च मध्यार्ककलासमानाः ।। २० । तदन्तरं यत् स्फुटमध्ययोस्तद्बुपिण्डयोः स्याद्विवरं गतिघ्नम् । हृतं बुरात्रासुभिराप्तलिप्ताहीना ग्रहाश्चेदसवोऽल्पकाः स्युः ॥ २१ ॥ तदन्यथाढ्यास्तु निजोदयैश्चेत् भुक्तासुपूर्वं विहितं तदानीम् । कृतं तथा स्याच्चरकर्ममिश्रं कर्म ग्रहाणामुदयान्तराख्यम् ।। २२ । वा० भा० -- सायनांशेन रविणा मेषावेरारभ्य ये भुक्ता राशयस्तत्सम्बन्धिनो ये निरक्षो- बयासवो गगनभूधरषट्कचन्द्रा १६७० इत्यादयस्तेषामेक्यं कृत्वा भुज्यमानराशेयें भुक्ता भागा- स्तांस्तदुवयासुभि: संगुण्य त्रिशता ३० विभज्य लब्धासवोऽपि तत्र क्षेप्याः । एवं मध्यार्क- भुक्तासवः स्युः | भविनान्तादूर्ध्वं तावत्यस्वात्मके काले लङ्कायां मध्यमस्या कंस्योदयः । तत्काले हि ग्रहाः साध्याः । अथ चाहगंणेन ये सिद्धास्ते मध्यमार्ककलामितेऽस्वात्मके