पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगति वासना ३७९ मवमखण्डम् । यद्यनेन त्रिशच्चान्द्राणि दिनानि लभ्यन्ते तदा संपूर्णेनेकेनावमेन कियन्तीति राशिकेन लब्धं रुद्रांशकोनाब्धिरसे ६३ | ५४ | ३३ रेक: क्षयाहो भवति । स च सावनः | अखण्डस्य रूपस्य सावनेच्छा कल्पनात् । अतोऽनुपातात् कल्पेऽपि ॥ १२ । इदानीमधिमासस्य चान्द्रत्वमवमस्य सावनत्वमभिधायाहगंणात् कल्पगतमानेतुं विलोम- विचिना यान्यवमान्यानीतानि ये चाबिमासास्तेवां विशेषमाह -- सौरेभ्यः स. धितास्ते चेदधिमासास्तदैन्दवाः । चेच्चान्द्रेभ्यस्तदा सौरास्तच्छेषं तद्वशात् तथा ॥ १३ ॥ सावनान्यवमानि स्युश्चान्द्रेभ्यः साधितानि चेत् । सावनेभ्यस्तु चान्द्राणि तच्छेषं तद्वशात् तथा ॥ १४ । वा० भा० -- यथाहगंणानयने सौरेभ्यश्चान्द्रान् साधयितुं येऽधिमासा आनीयन्ते ते चान्द्रःस्तच्छेषं च चान्द्रम् | यदि चान्द्रेभ्य: सौरान् साधयितुं तदा सौरास्तच्छेषमपि सौरम् । एवं चान्द्रेभ्य: सावनानि साधयितुमरमान्यानोयन्ते तदा तानि सावनानि । यदि सावनेभ्य- वान्द्राणि कर्तुं तवा चान्द्राणि स्युः | सध्यत्वं भजन्तीत्यर्थः । तच्छेषमपि तद्वशात् । अभिमत गणादव मेहंतादित्यादिनाहगंणात् कल्पगतमानीतं तवा तानि । तानि चान्द्राणि | चन्द्रदिवसेभ्योऽधिमासाः साधितास्ते सौरास्तच्छेषं तद्वशा- सावनेभ्योऽवमान्यानी- दित्यर्थ: । अधिमासस्य चान्द्रत्वे सौरत्वे चाधिमासशेषं तुल्यमेव स्यात् । कित्येकत्र रविदिनानि छेदः । अन्यत्र चान्द्राणि । एवमवमशेषस्यापि तुल्यत्वमेव । एकत्र चन्द्रदिनान्यन्यत्र कुदिनानि छेदः । अधिमासावमशेष योरिष्टजातित्वं प्रकल्प्य मतिमद्भिश्चन्द्राव नियनानि कृत नि । तत्र ये जडास्ते वासनां पर्यालोचयन्तो भ्रमन्ति ॥ १३-१४ । इवानों विशेष: प्रश्नाध्याये-- अहर्गणस्यानयनेङ्कमासाश्चैत्रादिचान्द्रैर्गणक न्विताः किम् । कुतोऽधिमासावमशेषके च त्यक्ते यतः सावयवोऽनुपातः ।। १५ । अस्य प्रश्नस्थोत्तरमाह - दर्शावधिश्चान्द्रसमो हि मासः सौरस्तु संक्रान्त्यवधिर्यतोऽतः । दर्शाग्रतः संक्रमकालतः प्राक् सदैव तिष्ठत्यधिमासशेषम् ।। १६ । दर्शान्ततो याततिथिप्रमाणैः सौरैस्तु सौरा दिवसाः समेताः । यतोऽधिशेषोत्यदिनाधिकास्ते त्यक्तं तदस्मादधिमासशेषम् ।। १७ । तिथ्यन्तसूर्योदययोस्तु मध्ये सदैव तिष्ठत्यवमावशेषम् । त्यक्तेन तेनोदयकालिकः स्यात् तिथ्यन्तकाले युगणोऽन्यथातः ।। १८ । वा० भा०--मध्यममानेन यावत्यमावास्या तवन्ते चान्द्रमासान्तः । मध्यमार्कस्य यस्मिन् दिने संक्रान्तिस्तत्र संक्रान्तिकाले रविमासान्तः । तयो रविचन्द्रमासान्तयोरन्तरे यावत्यस्ति-