सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ सिद्धान्तशिरोमणौ गोलाध्याये स्य तीक्ष्णविवाणरूपतेति वदता चन्द्रस्यैव जलगोलकत्वं स्वीकृतम् । भाष्येऽपि “अत्रि- नेत्रोदबिन्दुरिन्दुः" इति पुराणत्रामाण्याज्जलमयत्वं स्वीकृतमेव । अन्येषां तेजोमय- मण्डलत्वे न कापि क्षतिरस्तोति "जलमयजलजस्य इत्येकवचनेन सूचितम् । अद्भुतसागरकारेण 'तेजसां गोलकः सूर्यो ग्रहर्क्षाण्यम्बुगोलकाः । प्रभावन्तो हि दीप्यन्ते सूर्य रश्मिप्रदीपिताः । इति सूर्यसिद्धान्तेऽभिहितमित्युक्तं । तत्सूर्यसिद्धान्तपुस्तकानवेक्षणात् प्रमादाद् वा उक्तम् । न ह्ययं श्लोकः कस्मिन्नपि सूर्यसिद्धान्तपुस्तकेऽस्ति । यथा गतोऽब्ध्यद्रिनन्दैमिते शाककाले तिथीशैर्भविष्यति" अयं श्लोकः केनचित्काल- निर्णयकारेण प्रमादात् सूर्यसिद्धान्तोक्त इत्युक्तम् । तथा प्रमादात्परविश्वासात्तेनोक्तम् । सूर्यसिद्धान्तेऽपि २ दिवाकरकराक्रान्तमूर्तीना मल्पतेजसाम्" इत्यादिना चन्द्रव्यतिरि- क्तानां तेजो गोलकत्वमपि वक्तुं शक्यते ग्रहनक्षत्राणां बिम्बकलाभ्यो योजनान्यवगन्त- व्यानि । ईदृशनक्षत्रकक्षाखचरैः समेतः प्रवहोर्जस्त ॥ १-३॥ 3 इदानों ग्रहाणां पूर्वगतिमनुपलक्षितामपि दृष्टान्तेन दृढीकुर्वन्नाह - यान्तो भचक्रे लघुपूर्वगत्या खेटास्तु तस्यापरशीघ्रगत्या | कुलालचक्रभ्रमिवामगत्या यान्तो न कीटा इव भान्ति यान्तः ।। ४ । इदानीं मध्यगतिवासनां विवक्षुरादौ तावद्भदिनपूर्वकं रवेः स्फुटसावनदिनमाह -- समं भसूर्यादितौ किलार्चा षष्टया घटीनामुदितं पुनर्भम् । रविस्ततः स्वोदयभुंक्तिघातात् खाभ्राष्टभू १८०० लब्धसमासुभिश्च ॥५॥ समागतासुसंयुता रवेस्तु षष्टिनाडिकाः । स्फुटं द्युरात्रमुगमाद्बुभुक्तितश्च तच्चलम् ।। ६ । षष्ट्या घटीनां भदिनं सदार्या तद्भुक्तितुल्यासुयुतं खराशोः । स्यान्मध्यमं सावनमेवमब्दे तत्संख्यका भभ्रमतो निरेका ।। ७ । वा० भा० – यदा किमपि नक्षत्रं सूर्यइच किल समकालमुदितः । नादयत्रेला यां किमपि नक्षत्रमुपलभ्यते किन्तु केवलात्र युक्तिरुच्यत इति किलशब्दः प्रयुक्तः । तस्मात् कालाद- १. सि० तत्त्व० बिम्बा० ३ श्लो० | २. सू० सि० उदया० १ इलो० । ३. अत्र श्रीपतिः - 'ज्योतिश्चक्रं प्रवहमरुता भ्राम्यते प्रत्यगेतत् तत्स्थाः शश्वद्गगनगतयो भान्ति यान्तस्तथैव' । सि० शे० १५ अ० ५३ श्लो० । ४. समकालं विनिकष्क्रान्ती समकालं समागतौ । तयोदिनविपर्यासोऽचिन्त्या माया हि सा हरेः ॥