पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगति वासनां सूर्यसिद्धान्तेऽभिहितम् । जलस्य विरलावयवत्वेन भूभागोपष्टब्धा जलभागा- श्चन्द्र मण्डलारम्भका: । चन्द्रबिम्बमाप्यं शीतस्पर्शाधिकरणत्वात् करकावत् । चन्द्र- बिम्बे यद्दीपवद् भास्वररूपाधिकरणत्वं प्रतीयते तदौपाधिकं प्रतिफलतार्ककिरणानामेव तत्स्वाभाविकम् । जपाकुसुमसन्निधानेन स्फटिकलौहित्यवत् । चन्द्रे भास्वररूपं स्वाभाविकमभविष्यत्तदा दर्शेऽपि दृश्येत । न च जलभागोपष्टब्धास्तेजोभागाश्चन्द्र- बिम्बारम्भका इति वाच्यम् । विरुद्धयोर्जलतेजसोरुपष्टभ्योपट्टम्भकभावस्य वक्तु- मशक्यत्वात् । तयोर्भागवैषम्येऽधिकभागैरल्पविरुद्धभागानां नाशापत्तेः । तुल्यभागाभ्युपगमे चन्द्रोऽनुष्णाशीतस्पर्श एव स्यात् । अत एवाचार्योऽपि शृंगोन्नतिवासनायां वक्ष्यते - ' तरणिकिरणसङ्गादेष पीयूषपिण्डो दिनकरकरदिशि चञ्चच्चन्द्रिका भिश्चकास्ति । तदितरदिशि बालाकुन्तलश्यामलश्री- घंट इव निजमूर्तिच्छाययैवातपस्थः ।। मतान्तरे दिनकरदिश्येव प्रथमकलिकोदयो न स्यादिति दूषणं । तरणिकिरण- सङ्गाद्दिनकरदिशि चञ्चच्चन्द्रिकाभिश्चकास्ति जलगोलक इति वदता स्पष्टं समर्थितम् । चन्द्रे सितोपचयापचयौ सङ्गतादित्यकरनिकरप्रसारापसारको एतन्निमित्तत्वे सति तन्निमित्तत्वाद् यथा दण्डजन्यो घट इत्यनुमानं मनसि संधाय तीक्ष्णविषाणरूपत्व- कारणं वक्ष्यते । उपचितिमुपयातिशौक्लमिन्दोस्त्यजत इनं व्रजतश्च मेचकत्वम् । जलमयजलजस्य गोलकत्वात्प्रभवति तीक्ष्णविषाणरूपताऽस्य इति । चन्द्रस्य तीक्ष्णविषाणरूपदर्शनं जलगोलकत्वं बोधयति । सोमसिद्धान्तेऽपिं जलमयत्वमेव स्वस्य बोधितम् । पाञ्चभौतिकत्वेऽपि जलभागाश्चत्वारोऽन्यभूतचतुष्टयस्य चत्वार इति न किञ्चद्विरुद्धम् । ननु यन्मते चन्द्रवद् भौमादीनां नक्षत्राणां जलगोलकत्वं स्वीकृतं तन्मते कथं तेषां शृङ्गाणि नोत्पद्यन्ते । तत्राह लल्ल:- ऊर्ध्वगस्य नरदृष्टिगोचरं खेचरर्क्षनिवहस्य यद्दलम् । • तत् सदार्ककिरण: समुज्वलं दृश्यते च तत एव नासितम् || भागवेन्दुसुतयोरधस्थयोर्हंश्यते चन्द्रवत् । तद्रवेनिकटवत्तसूक्ष्मयोः सर्वमेव वपुरुज्ज्वलं इति । यदसितं न भवेत् ॥ यथा रत्नघटमध्यस्थितेन दीपेन भाभिर्घटं निर्भिद्य सम्पूर्णोऽपि घटो बाह्यभागे सोज्ज्वलः क्रियते तथा बिम्बव्याससौक्ष्म्यान्निकटस्थितत्वाच्च बुधशुक्रबिम्बे निर्भिद्य निर्गंतैः सूर्यकिरणैस्तद्विम्बं सम्पूर्णं सोज्ज्वलं क्रियते । आचार्येण तु जलमयजलजस्या- १. सि० शि० गो० शृ० १ श्लो० । २. शि० वृ० गो० म० वा० ४१-४२ श्लो० ।