पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये सूर्यसिद्धान्ते ग्रहनक्षत्रसृष्टिरुक्ता । वासुदेवः परं ब्रह्मेति । तन्मूत्तिसङ्कर्षणः । प्रकृतिपुरुषयोः क्षोभकस्तदन्तर्गतोऽस्ति । पञ्चविशात्समुदायादयं परोऽस्ति । पुरुषः प्रकृतिमँहानहङ्कारः पञ्चतन्मात्राणि । पृथिव्यादीनि पञ्चमहाभूतानि | घ्राणरसनचक्षुः- श्रोत्रत्वक्संज्ञानि ज्ञानेन्द्रियाणि पञ्च | वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि । मनस्तुभयात्मकमिति पञ्चविंशो गणः । ३७२ 'सङ्कर्षणोऽपः सृष्ट्वाऽदौ तासु वीर्यमवासृजत् । तदण्डमभवर्द्धमं सर्वत्र तमसावृतम् | तत्राण्डेऽनिरुद्धो व्यक्तीभूतः स एव हिरण्यगर्भस्त्रयीमय: कालात्मा तमो हन्ता सूर्यादित्यादिशब्दवाच्यः । स सविता जगत्त्रष्टुं अहङ्कारं ब्रह्माणमसृजत् । स सविता ब्रह्मणे वेदा वराश्च दत्ताः । सृष्ट्यर्थं ब्रह्माणमण्डमध्ये संस्थाप्य स्वयं ब्रह्माण्डं भासयन् परिभ्रमति । तेन सृष्टिनिमित्तमादौ मनः सृष्टम् । र मनसश्चन्द्रमा जज्ञे सूर्योक्ष्णोस्तेजसां निधिः । मनसः खं ततो वायुरग्निरापो धरा क्रमात् । गुणैकवृद्धथा पञ्चैव महाभूतानि जज्ञिरे । रविचन्द्रयोः सृष्टिरुक्ता–रविचन्द्रयोः स्वरूपं भौमादिस्वरूपमुत्पत्तिश्च - अग्निरापो भानुचन्द्रौ भूतान्यङ्गारकादयः । तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे । पाञ्चभौतिकान्यपि बहुभागप्राधान्येन तन्मयान्युच्यन्ते । सूर्योऽग्निमयस्तैजसः । चन्द्रो जलमयः । भौमस्तैजसः । बुधो भूमिमयः । गुरुराकाशप्रचुरः । शुक्रो जलमयः । शनिर्वातप्रचुरः । पुनर्द्वादशधात्मानं विभेजे राशिसंज्ञकम् नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी । भौमादयः पञ्चग्रहा नक्षत्राणि तथा जलमयानि यथैतेषु रविकिरणप्रतिफलनं भवति । अन्यभागत्रयापेक्षया जलभागो भूयानिति जलमयानि कथ्यन्ते । यद्वा भौमादि- पञ्चग्रहास्तैजसा नक्षत्राण्यपि तेजसः शुक्लभास्वरं रूपम् | उष्णस्पर्शञ्च तेजः । ईदृशं तेजः सूर्यबिम्बारम्भकं तेजसो विरलावययत्वेन कदाचिद् रविबिम्बावयवस्य विभागा- पत्तेर्भूयसां भूभागानां दृढ़पिण्डीभावापादनायोपष्टम्भकत्वमास्थेयम् । यथार्कबिम्बे न सन्तीति । "दिवाकरकराक्रान्तरश्मीनामल्पतेजसामिति । १. सू० सि० १२ अ० १३ श्लो० । २. सू० सि० १२ अ० २२-२३ श्लो० । ३. सू० सि० १२ अ० २४ श्लो० । किन्तु मुद्रितग्रन्थे– 'अग्नीषोमी भानुचन्द्रौ ततस्त्वङ्गार- कादय इति पाठान्तरम् । ४. सू० सि० १२ अ० २५ श्लो० किन्तु मुद्रिते 'व्यभजद्राशि' इति पाठान्तरमस्ति । ५. सू० सि० ९ अ० १ श्लो० किन्तु 'क्रान्तमूर्तीनाम' इ० मु० पु० ।