पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगति वासना ३७१ वा० वा० – अथ मध्यगतिवासनां वदति । प्रवहवायुना प्रेरितं भचक्रं भ्रमतीति प्रतिपादनार्थं सप्तवातानाह - भूवायुरिति । - मेघाः भूवायौ तिष्ठन्तीत्याह – भूमेरिति । स्वादूदकसमुद्रान्तर्वाडवोऽग्निरस्ति । यथोर्ध्वमग्नेः स्थापितं भाजनस्थोदकमत्यन्तानलसंयोगेनोच्छलति तथा वाडवाग्नेरुपरि- स्थं समुद्रोदकं द्वादशयोजनपर्यन्तमत्यन्तानलसंयोगेनोवं गच्छति । वाडवाग्नेनिर्गताः स्फुलिङ्गा अपि सधूमा वायुप्रेरितास्तत्रैव यान्ति । एवं धूमज्योतिः सलिलमरुतां सन्निपातस्वरूपा मेघाः । इति प्रसिद्धम् । मेघा लोकादृष्टेन वर्षाकाल एव जलं प्रयच्छन्ति । बहुकालधृतं जलं घनीभूय करकात्वं प्रपद्यते । यद्वा भूमिस्थं जलमर्क: स्वरश्मिभिर्गृहीत्वा द्वादश- योजनान्तर्गतचर्मपेशीवदास्थितेषु मेघेषु स्थापयति । विरलावयवा जलधारणक्षमा जीवविशेषावा मेघाः । दिवि भुक्तफलानां भूमौ प्रपततां यानि रूपाणि तान्युल्का इत्यादि प्रसिद्धं संहितासु | अम्बुदविद्युदाद्यं भूवायौ तिष्ठति । प्रवहसंस्थां तन्नियतजवं चाह -- तदूर्ध्वगो यः प्रवह इति । भग्रहाणां या पश्चिगतिरुपलभ्यते सा प्रवहकृतेत्याह- नक्षत्रकक्षाखचरैरिति । यस्मात् प्रवहवायुर्नक्षत्रकक्षाखचरैः समेतोऽस्त्यतस्तेन प्रवहानिलेनाहतः प्रेरितः खेचर- चक्रयुक्तो भपञ्जरोऽजस्रं कुलालचक्रगकीटवद्भ्रमतीत्यर्थः । यथा तृणपर्णावसनाद्यं वाय्वाधारं वायुनैवान्तरिक्षे नीयमानं दृश्यते तथा प्रवहाश्रितं खेचरचक्रयुतं भचक्रं प्रवहेणैव पराशाभिमुखं नीयते । " भचक्रं ध्रुवयोर्बद्ध माक्षिप्तं प्रवहानि: । पर्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथा क्रमम् । इति सूर्यसिद्धान्तोक्तंर्ग्रहगणितान्तर्गत मध्यमाधिकारे "तदन्ततारे च ध्रुवत्वे नियुक्त " • इत्यनेन ध्रुवाधारं भचक्रमित्युक्तम् । अत्र तु समेत इत्यनेनाधा राधेयभावः सम्बन्धः स्वीकृतः । भचक्रपतनशङ्कानिरासतात्पर्येण मतद्वयस्वीकारेऽपि न कोऽपि दोषः । भूगोलवेगजनितेन समीरणेन केत्वादयोऽप्यपरदिग्गतयः सदा स्युः । प्रासादभूधर शिरांस्यपि सम्पतन्ति तस्माद्भ्रमत्युडुगणस्त्वचलाऽचलेव || सि० शे० १५ अ० १५-१७ श्लो० । यदि च भ्रमति क्षमा तदा स्वकुलायं कथमाप्नुयुः खगाः । इषवोऽभिनभः समुज्झिता निपतन्तः स्युरपांपतेदिशि ॥ पूर्वाभिमुखे भ्रमे भुवो वरुणाशाभिमुखो व्रजेद्धनः । अथ मन्दगमात् तथा भवेत् कथमेकेन दिवा परिभ्रमः ॥ १. सू० सि० १२ अ० ७४ दलो० । शि० धी० गो० मिथ्या० ४२-४३ इलो० |