३७० सिद्धान्तशिरोमणौ गोलाध्याये नक्षत्रकचाखचरैः समेतो यस्मादतस्तेन समाहतोऽयम् । भपञ्जरः खेचरचक्रयुक्तो भ्रमत्यजस्रं प्रवहानिलेन' || ३ | वा० भा० - प्रसिद्धमिदम् ॥ १-३ । परिवेष:- - सम्मृद्धिता रवीन्द्वोः किरणा: पवनेन मण्डलीभूताः । नानावर्णाकृतयस्तन्वभ्रे व्योग्नि परिवेषः ।। उल्का - यासां गतिदिवि भवेद्गणितेन गम्या तास्तारकाः सकलखेचरतो तिदूरे । तिष्ठन्ति या अनियतोद्गतयश्च ताराचन्द्रादधो हि निवसन्ति तदाश्रितास्ताः ॥ शीतांशुबज्जलमयास्तपनात् स्फुरन्ति ताश्चावहप्रवहमारुतसन्धिसंस्था: । पूर्वीनिले स्तिमितभावमुपागते स्मिस्ताराः पतन्ति कुहचिद्गुरुतावशेन || सि० सा० भूगो० ४४-४५ इड़ो० । अथ रजः संहतिः - . वर्षान्ते निर्जला मेघा वायुना विरलीकृताः । ईषद्वाष्पावशेषास्तु पतन्ति वसुधातले ॥ घूमावयवरूपैस्तैश्छाद्यन्ते गिरयो द्रुमाः । रामारामादयस्ते तु पुनरर्कांशुशोषिताः ॥ बृ० सं० ३४ अ० १ श्लो० । भूवायुना विशीर्णास्तु विलीयन्ते नभस्तले । तद्रजःसंहतिर्धेनुमहिषीक्षीरनाशकृत् ॥ सन्ध्यारागस्तु - सि० सा० भूगो० ४६-४७ इलो० । भूम्युत्थितं रजोधूमैदिगन्तव्योम्नि संस्थितैः । सूर्याल्पकिरणमिश्ररारुण्यवभासते ॥ विरलावयवं वस्तु यद्दष्टेव्र्व्यवधायकम् । तेनाभ्रमरुणीभूतं दृश्यते शक्रचापवत् || सन्ध्यारागः स विज्ञेयो दिनादौ च दिनात्यये । राकायां तु निशावकुत्रे तथैवेन्दुकरोद्यमे || सि० सा भूगो० ४९-५१ श्लो० । १. अत्र श्रीपतिः नौस्थोऽनुलोमगमनादचलं यथा न चामन्यते चलति नैवमिलाभ्रमेण | लङ्कासमापरगतिप्रचलद्भचक्रमाभाति सुस्थिरमपीति वदन्ति केचित् || यद्येवमम्बरचरा विहगा: स्वनीडमासादयन्ति न खलु भ्रमणे धरित्र्याः । किश्वाम्बुदा अपि न भूरिपयोमुच: स्युर्देशस्य पूर्वंगमनेन चिराय हुन्त ||
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४१२
दिखावट