पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगति वासना ३७५ मन्तरं नाक्षत्राणां घटीनां षष्ट्या ६० तनक्षत्रं पुनरुदेति । ततोऽनन्तरं रविरुदेति । स च कियता कालेन । तदर्थमनुपात: । रविः किल क्रान्तिवृत्ते स्फुटगत्या पूर्वतो गतः । यद्यष्टादशश- तानि राशिकलाः स्वोदयासुभिरुद्गच्छन्ति तदा स्फुटगतिकला कियद्भिरिति । एवं लब्धासुभिर्भोदयानन्तरं रवेरुदयः । अत एव नाक्षत्रा: षष्टिघटिकास्तैलंब्धासुभिरधिका | रबेः स्फुटं सावनमहोरात्रं भवति । तच्चाहोरात्रं चलम् । प्रत्यहमन्यादृक् । प्रत्यहं गत्य- मत्वात् प्रतिमासं राज्युदयान्यत्वाच्च । यत् पुनघंटीषष्ट्या मध्यमभुक्तितुल्यासुयुतया सा- म्वनं धुरात्रमुच्यते तन्मध्यमम् । यतोऽब्दान्ते यावन्ति स्फुटसावनानि तावन्त्येव मध्यमानि स्युः । गतीनामुदयानां च ह्रासवृध्योस्तुल्यत्वात् । तत् कथं नित्यं रविगतिलिहासमासुभिः सहितो भाहः सावनाहो भवतीति लल्लादिभिरुक्तम् । स्यादेतत् । यदि विषुवन्मण्डले रविः पूर्वतो ति । तर्हि विषवन्मण्डलस्यैका कलैकेनासुनोदेति । तदा रविगतिलिप्तासमासुभि रेति वक्तुं युज्यते । तन्न युक्तम् । रवि : क्रान्तिवृत्तेन याति तत्र मेषराशे: कला अष्टादशशतानि १८०० गगनभूधरषट् कचन्द्र मितेरसुभि १६७० रुद्गच्छन्ति । अन्यस्यान्यैरिति गतिकलानामनुषा- सेनासव: कर्तुं युज्यन्ते । एवं कृते सति स्फुटसावनानि तावन्त्येव मध्यमानि स्युः । तत्संख्यका भभ्रमतो निरेकेति । यावन्तो भभ्रमा जातास्तत्संख्यकैकोना सती सावनदिवससंख्या भवति । यतो रविः पूर्वतो गच्छन्नेकं परिवतं गतः । अतस्तस्योदय संख्यै को नेत्युपपद्यते ।। ४-७। वा० वा० - ननु प्रवहाधेयानां ग्रहाणामाधारवशेन पश्चिमगमने युक्तिसिद्धे सत्य- श्विनीस्थग्रहस्य भरण्यादिसंयोगदर्शनानुभूतपूर्वगमनं कथं संजाघटीति । यथा च पश्चिमगतिभानं झटिति भवति न तथा पूर्वगतिभानं भवतीत्यतो दृष्टान्तपुरस्सरमाह- यान्तो भचक्रे लघुपूर्वगत्येति । समं भसूर्यावित्यादिवासना निरूपणमतीव स्पष्टम् । तथापि क्वचित् किञ्चिदिहोच्यते । ननु सौरदिनसाधिता अधिमासाश्चान्द्राः कथं भवतीत्यत्राह भाष्यकार:- साध्यजातित्वं भजन्त इति । एकस्मिन् सौरदिवसे साधितमधिशेषं सौरस्य न भवति निरवयवसौरान्तसाधितत्वादधिशेषस्य तस्मात् सौरान्तर्वत्त द्वितीय चान्द्रस्येदमधिकम् । यस्मादेकसौरमध्ये सम्पूर्णश्चान्द्र एको दिवसो द्वितीयधनशेषयुक्तोऽस्ति । सौरेभ्यो यदधिमाससाधनं' तच्चान्द्रीकरणार्थमेव क्रियते तच्चान्द्रा एव साध्या इति युक्तमुक्तं साध्यजातित्वमिति । अधिमासशब्दो योगरूढ़ः पङ्कजशब्दवत् । सौरमाससंख्यातश्चान्द्र- माससंख्याधिक्यमधिमासशब्देनोच्यते । अवमशब्दो न्यूनत्ववाचकः | सावन दिनसंख्या - याश्चान्द्रदिवससंख्यातो न्यूनत्वमवमशब्देनोच्यते । तिथिसंख्यातः सावनसंख्याल्पत्वेन तिथिक्षया इत्युच्यन्ते । दिनशब्दः सावने मुख्य इति सावनमधिमासाश्चान्द्राणां सावनीकरणार्थमवमानि साध्यन्ते । कस्मादधिकसंख्यायाः क्षयश्चान्द्रसंख्यातो दिनक्षयः । अस्मिन् सौरवर्षान्तर्गतचान्द्रमासेऽस्यां तिथावस्मिन् वासरे सूर्योदये कुत्र ग्रहा इति प्रश्ने १, माधनमिति क पु० ।