पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये करतलकलितामलकवदमलं सकलं विदन्ति ये गोलम् । दिनकरकरनिकरनिहततमसो नभसः परिधिरुदितस्तैः ॥ ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि । यावन्ति पूर्वैरिह तत्प्रमाणं प्रोक्तं खकक्षाख्यमिदं मतं नः ॥ ग्रहस्य चक्रेविहृता खकक्षा भवेत्स्वकक्षानिजकक्षिकायाम् । ग्रहः स्वकक्षामितयोजनानि भ्रमत्यजस्रं परिवर्त्तमानः ॥ इति । एव गतियोजनज्ञाने भूव्यासार्द्धज्ञानं सुखेन भवत्येव । आर्यभट-सौर- सिद्धान्तयोर्योभूप्रमाणभेदः स योजनलघुत्वालघुत्वकृतः ॥ ५१ । ३६० इदानीं भूपरिधिमानं प्राक्कथितमपि विशेषार्थ मनुवति स्म -- प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय- ४९६७ स्तद्व्यासः कुभुजङ्गसायकभुवः सिद्धांश केनाधिकाः १५८१२४ । पृष्ठ क्षेत्रफलं तथा युगगुणत्रिंशच्छराष्टाद्रयो ७८५०३४ भूमेः कन्दुकजालवत् कुपरिधिव्यासाहतेः प्रस्फुटम् ।। ५२ । वा० भा० -- भूव्यासः कुभुजङ्गसायकभूमितानि योजनानि चतुर्विंशत्यंशयुतानि १५८१ २४ । परिधिः सप्ताङ्गनन्दाब्धिमितानि ४९६७ । ब्रह्मोक्तभूव्यासस्य कथं त्वदुक्तादन्यः परिधि- रिति चेदत्रोच्यते । महदयुतादि व्यासार्धं प्रकल्प्य वृत्तशतांशादपि सूक्ष्मविभागस्य ज्योत्पत्तिवि- धिना ज्या साध्या । यत्संख्याकस्य विभागस्य ज्या तत्संख्यया सा गुणिता सती परिधिर्भवति' । यतः शतांशादपि सूक्ष्मऽशो वृत्तं समः स्यात् । अतोऽयुतद्वयव्यासे २०००० द्विकाग्न्यष्टय मर्तुमितः ६२८३ परिधिरायंभटाद्यैरङ्गीकृतः । यत् पुनः श्रीधराचार्यब्रह्मगुप्तादिभिर्व्यासवर्गाद्दशगुणात् पवं परिथि: स्थूलोऽप्यङ्गोकृतः स सुखार्थम् । नहि ते न जानन्तीति । तथा भूपृष्ठक्षेत्रफलं योजनात्मकं युगगुर्णात्रंशच्छर टाद्रयः ७८५३०३४ | कथमिदं जातं तदाह - परिधिव्यास 'हते: प्रस्फुटम् ॥ ५२ वा० वा० – स्वमतेन भूप्रमाणमाह - प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय- स्तद्व्यासः कुभुजङ्गसायकभुवः सिद्धांशकेनाधिकाः ॥ इति । ब्रह्मगुप्तादिभिः प्रोक्त इति वदता न मया लक्षित इत्यर्थः । चक्रकला- परिधेद्विगुणत्रिज्या ६८७६ व्यास इवास्य भूपरिधेः सूक्ष्मप्रकारेणायं व्यास उक्तः । गोलपृष्ठफलञ्चाह-युगगुणेति । तत्र वृत्तक्षेत्रफलोपपत्तिस्तावदुच्यते । सप्तव्यासं यद्वृत्तं तत्र द्वाविंशतिमितः स्थूलपरिधिर्भवति । यत्सार्द्धत्रयव्यासार्द्धमितकर्कटककृतं १. अत्र बापूदेवोक्तं सूक्ष्मपरिध्यानयनोपयोगिपद्यम्- त्रिज्या रूपमिता यत्र चापस्पर्धिगुणस्य च । ध्वाढ्यस्य मूलं चापाधंस्पर्धिनीशिञ्जिनी भवेत् ॥