पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशः ३५९ । भगवतः स्थूलस्वरूपं वक्ष्याम प्रमाणाकारयोरेव ब्रह्माण्डदानभूदानोपयोगित्वमुक्तम् इत्युपक्रम्य भूगोलग्रहकक्षादिप्रमाणमुक्तं पुराणे । इति 'भगवतः स्थूलस्वरूपमुक्तम् । स्थूलात् सूक्ष्मे दृष्टिनिवेश्येत्युपसंहारः कृतः । तेन विराट्स्वरूपान्तर्गतत्वं भूमेः स्पष्टमेवाभिहितम् । गणितशास्त्रे देशान्तराद्युपयोगित्वेनेदं भूम्यादिप्रमाणमुक्तमिति न कोऽपि विरोधः । अत एवाचार्येण "शृङ्गोन्नतिर्ग्रहयुतिरिति" शोभनमुक्तम् । चक्रादि यन्त्रेण चन्द्रस्योन्नतांशकला ज्ञात्वा त्रिप्रश्नोत्तया च ज्ञात्वा तदन्तरं कार्यं तत्तु गतितिथ्यंशतुल्यं प्रत्यक्षमुपलब्धम् । गतितिथ्यंशकलाभिर्भूव्यासार्द्धयोजनानि लभ्यन्ते तदैककलया किमिति पञ्चदशैव लभ्यन्ते । ततः पञ्चदशगुणिताश्चक्रकलाइचन्द्रकक्षा- प्रमाणं स्यात् । अमुमेवाशयं मनसि कृत्याचार्येण शिष्यधीवृद्धिदटीकायां चन्द्रकक्षा- प्रमाणमिष्टं प्रकल्पितम् । चन्द्रगतिकलाः पञ्चदशगुणा गतियोजनानि सर्वेषां भवन्ति । स्वस्वमध्यगतिकलाभिः गतियोजनानि तदा चक्रकलाभिः किमिति ग्रहकक्षा भवन्ति । चक्रकलाभिस्त्रिज्यातुल्यं ३४३८ व्यासार्द्धं तदा आभिः स्वस्वकक्षाभिः किमिति ग्रहाणां योजनकर्णा भवन्ति । भूदिनगुणा योजनात्मिकगतिः, चन्द्रकक्षा वा चन्द्रभगणगुणा, ग्रहकक्षा वा ग्रहभगणगुणा खकक्षा स्यात् । रविसावनदिनानि कल्पजान्यागमेन ज्ञात्वा खकक्षासाधनं कृतम् । आगमेन चन्द्रभगणान् कल्पजान् ज्ञात्वा अन्यग्रहभगणान् वा कल्पजान् ज्ञात्वा खकक्षासाधनं कृतम् । चन्द्रभगणा वा चन्द्रकक्षागुणा रविकक्षाभक्ताः कल्पसौरर्षाणि लभ्यन्ते । कल्पचन्द्रभगणाः चन्द्रकक्षागुणा गतियोजनभक्ताः सूर्यसावनदिवसाः लभ्यन्ते । आगमेन खकक्षाप्रमाणमङ्गीकृत्य यन्त्रेण चन्द्रादिग्रहकक्षा उपलभ्य ग्रहभगणा ज्ञायन्ते । खकक्षायां रविकक्षाहृतायां कल्पसौरवर्षाणि भवन्तीति खकक्षायाम् आगम एव प्रमाणमित्याचार्येण ग्रहगणितवासना भाष्येऽभिहितम् । आगमप्रामाण्येन सौर- वर्षाणि स्वीकृत्य अस्माभिः सौरभाष्ये खकक्षादिसाधनं सोपपत्तिकमुक्तमिति न कोऽपि विशेषः । द्वयोरेकस्य ज्ञानमागमेन अन्यस्य यन्त्राद्युपलब्ध्या ज्ञानञ्च कृत्वा तृतीयमेताभ्यां ज्ञायत इति सर्वत्राविशेषात् । खकक्षाप्रमितमेव ब्रह्माण्डमिति केचिदाहुः । वक्ष्यति च---- कोटिघ्नैर्नखनन्दषट्कनखभूभूभृद्भुजङ्गेन्दुभि- ज्र्ज्योतिश्शास्त्रविदो वदन्ति नभसः कक्षामिमां योजनैः । तद्ब्रह्माण्डकटाहसम्पुटतटे केचिज्जगुर्वेष्टनम् केचित्प्रोचुरदृश्यदृश्यकगिरि पौराणिका: सूरयः ॥

१. भगवन्त इ. क ख ५० ।